________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दरखडे (मु०) किन्तु लाक्षणिकं पदं नानुभावकं लाक्षणिकार्थस्य शाब्द. बोधे तु पदान्तरं कारणम् । शक्तिलक्षणान्यतरसम्बन्धेनेतरपदार्थान्वितस्वशक्यार्थशाब्दबोधं प्रति पदानां सामर्थ्यावधारणात् ।
(प्र० टी० ) ननु-" तच्छान्दबोधे तच्छनपदज्ञानमेव हेतु" रिति लाक्षणिकपदात्कथं शाब्दबोध: स्यादित्यत श्राह-"किन्त्वि "ति। लाक्षणिकं पदम्तदर्थलाक्षणिकपदम् । नानुभावकम् शाब्दबोधजनकं नास्तीत्यर्थः । तथाच लाक्ष. णिके पदे स्मारिका शक्रिरेव नानुभाविकीति भावः । लाक्षणिकार्थस्य शाब्दबोधेलक्षणाज्ञानाधीनोपस्थितिविषयार्थविषयकशाब्दबोधे । पदान्तरम् घोषादिपदम् । कारणं हेतुः । अत्रार्थ नियममाह-" शक्तिलक्षणान्यतरे "ति । नियमशरीरस्यायमर्थः-शक्तिलक्षणान्यतरसम्बन्धेन-शक्या लक्षणया वेत्यर्थः । उपस्थितो यस्ती. रादिरितरपदार्थः, तदन्वितो यः स्वशक्यार्थः-स्वपदगृहीतो घोषादिर्यः शक्यार्थः भाभीरपल्लयात्मकः, तादृशतीराद्यन्विताभीरपल्लयात्मकशाब्दबोधं प्रति, पदानां घोषादिपदानां सामर्थ्यावधारणात् सामर्थ्यस्य निश्चितत्वात् । अर्थात् यत्र लक्षणया तीराद्युपस्थितिः तत्रोपस्थिततीरादिना अन्वितस्य घोषादिशक्तस्यैव लक्ष्यार्थशाब्दबोधप्रति (अपि) कारणतेति सर्वमनवद्यम् । तथाच--तल्लाक्षणिकपदसमभिव्याहृतं शक्त पदं तस्मारितवाक्यार्थविषयकशाब्दबोधजनकमिति भावः । कुमतिः पशुरित्यत्र सर्वलाक्षणिकस्थले शाब्दबोधस्यानुभवसिद्धतया लाक्षणिकपदस्याप्यानुभावकत्वमिति नव्याः । तीरत्वादिना गङ्गादिपदस्य । काचिच्छक्यलक्ष्योभयवृत्तिना शक्यवृत्तिनैव वा रूपेणानुभावकत्वात् "अजहत्स्वार्थी" । यथा--द्रव्यत्वादिना नीलघटत्वादिना च घटपदस्य । काचिल्लक्ष्यतावच्छेदकीभूततत्तद्रूपेण पूर्वपूर्वप्रत्यायकत्वात् “निरूढा' । यथा—भारुण्यादिप्रकारण तदाश्रयद्रव्यानुभावकत्वादरुणादिपदस्य । काचिच्च पूर्वपूर्वताद्रप्येणाप्रत्यायकत्वात् “आधुनिकी"। थया-घटत्वादिना पटादिपदस्य । आदिना शक्यसदृशत्वप्रकारेण बोधकतया गौण्यपगृह्यते । यथा-अग्निर्माणवक इत्यादावग्निसदृशत्वादिना अग्न्यादिपदस्य। तदेवं विविधलक्षणावत्वात "लक्षक" नामापि जहत्स्वार्थादिभेदादनकविमित्यर्थः ।
* कुत्सिता मतिर्यस्य स कुमतिरिति बोधः । इतरपदस्य कुत्सितज्ञानवल्लाक्षणिकतया, पूर्वपदस्य तात्पर्यग्राहकतया निरर्थकत्वम् । तेन कुत्सितपशुत्वस्य बाधितत्वेन पशुपदस्यापि पशुपदलाक्षणिकतया " कुमतिः पशु" रित्यत्र कस्यापि शक्तपदस्याभावात् तत्र शाब्दबोधो न स्यादिति शाब्दबोधोपपत्तये लाक्षणिकपदेऽपि भानुभाविकी शक्तिरवश्यमङ्गीकरणीयेति भावः।
स्यादेतत्-यदि तीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीरायनुभवे भवेद्धेतुः भवे. दप्युक्तक्रमेण लक्षकाणां विभागः नत्वेतदस्ति । ताराद्यन्वयबोधं प्रति तीरादिशक्तपदज्ञानस्य लाघवेन हेतुतया लक्षकाणामननुभावकत्वाव, गुरूणाम् " भग्नौ शैत्यं स्पृशेत् " इत्यादौ शक्येन दानादेनव " गङ्गाया घोष" इत्यादौ लक्षितेन तीरादिना सामगृहीतासंसर्गकस्यैव सप्तम्यर्था