________________
लक्षणाप्रपञ्चः।
तत्र पुरुषे सिंहपदीयशक्यार्थस्य साक्षात्सम्बन्धस्तु न प्रतीयते येन केवललक्षणाश्रीयेत । किन्तु शौर्यादिभि: सिंहशक्यार्थस्य "श्राधेयतासम्बन्धः" । सिंहशक्यसम्बन्धिनां शौर्यादीनाञ्च पुरुषे "आश्रयतासम्बन्धः' तत्रापि सिंहगतशौर्यस्य पुरुषवृत्तिशौर्यस्यचाभेदपक्षे सिंहवृत्तिशौर्यस्य पुरुषे "अधिकरणतासम्बन्धः" तयोर्भेदपक्षे च सिंहवृत्तिशौर्यस्य "स्वजातीयशूरताधिकरणतासम्बन्धः" इति बोध्यम् । अत्र "स्व" पदेन सिंहवृत्तिशौर्यक्रौर्यादेर्ग्रहणम् । एवं दर्शितरीत्या वाक्यीयपरम्परासम्बन्धतया सिंहपदस्य शौर्यादिगुणविशिष्टे या लक्षणा सा लक्षितलक्षणा । एवञ्चयमेव गौणी लक्षणा । गौणी च पृथक् वृत्तिरिति केचित् । उक्तं हि सक्षेपशारीरके*सर्वज्ञात्ममुनिभिः
गुणतो गुणवृत्तिरिष्यते ह्यपरा लाक्षणिकी तु सङ्गतेः । इति भेदकमस्ति लक्षणागुणवृत्योरिति वेदवादिनः ॥
शब्दस्य मुख्यार्थगुणयोगादन्यत्र वृत्तिर्गुणवृत्तिः, मुख्यार्थसम्बन्धादन्यत्र. वृत्तिलक्षणावृत्तिरिति विवेकः । गौण्या अपि लक्षितलक्षणायामेवान्तर्भाव इति न तद्वृत्त्यन्तरमिति बहवः । अधिकमाधिकोपयुक्तमपि ग्रन्थगौरवभयानोक्तम् ।
इयाँस्तु विशेषः-न्यायवैशेषिकादिमते वाक्ये नास्ति लक्षणा । “शक्यसम्बन्धो लक्षणे"ति चोच्यते, पदसमुदायरूपवाक्यस्य कस्मिंश्चिदप्यर्थे शक्तिर्नास्तीति कथं तत्र वाक्यीय: शक्यसम्बन्धो लक्षणा घटेत । किन्तु बहुव्रीहिसमासे उत्तरपदमेव लाक्षणिकमिति नयेन प्रकृते रेफपदस्यैव रेफविशिष्टे भ्रमरपदे लक्षणा । “द्वि" पदन तात्पर्यग्राहकम् । मीमांसकादिमते तु वाक्येऽपि सेति नानुपपत्तिः । परन्तु-वाक्ये शक्तिरेव नास्तीति कथं शक्यसम्बन्धरूपा लक्षणेति यदुकं तत्रोच्यते-“पदसमुदायो वाक्य" मित्यविप्रतिपन्नम् । “समुदायश्च समुदायिनोऽवयवरूपान्न भिद्यत" इति दर्शने पदसमुदायोऽपि प्रत्येकपदादभिन्न एवेति कृत्वा पदीयशक्यसम्बन्धो वाक्येपि वर्तते इति न काप्यनुपपत्तिः।
अथवा-"बोध्यसम्बन्धो लक्षणा" इत्येवास्तु लक्षणालक्षणम् । यथा पदीयशक्यता शनिवृत्तिबोध्या तथा परम्परासम्बन्धविशिष्टः पदार्थरूपो वाक्यार्थः पदार्थानां संसर्गरूपो वा वाक्यार्थोऽपि वाक्यबोध्यो भवति । ततश्च बोध्यसम्बन्ध रूपा लक्षणा पदवद् वाक्येपि तिष्ठतीति वाक्यमपि लक्षकम् ।।
* एते हि वार्तिककाराणां विश्वेश्वराचार्याणां प्रमुखशिष्या अभूवन् । + उक्तञ्च तर्कालङ्कारजगदीशभट्टाचार्य:
जहत्स्वार्थाजहत्स्वार्थनिरूढाधुनिकादिकाः ।
लक्षणा विविधास्ताभिर्लक्षकं स्यादनेकधा ॥ ( शब्दशक्ति० ) काचिल्लक्षणा शक्यावृत्तिरूपेण बोधकतया "जहत्स्वार्था" इत्युच्यते । यथा