________________
३४०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः।
[शब्दखण्डे
स्तीरे सोऽर्थनिष्ठः सम्बन्ध एव गङ्गाशब्द आरोपितो लक्षणा। तेन चारोपितेन शब्द. व्यापारेण गङ्गापदालक्ष्यभूततीरोपस्थितिर्भवति । तत "स्तीरे घोषो गङ्गातीरे वा घोष" इति शाब्दबोध इत्यधस्तादप्यबोचाम।
तत्पदीयशक्यार्थस्य परम्परासम्बन्धो लक्षितलक्षणा । “यथा-द्विरेफो रौति" इत्यत्र द्विरेफपदस्य शक्यार्थो रेफद्वयं तस्य रवणे च वक्तुस्तात्पर्य नास्ति, यतो रवणक्रियाया रेफद्वयेन सहान्वयासम्भवः, किन्तु रेफद्वयविशिष्टं भ्रमरपदं, तदीयशक्यार्थो मधुपो जन्तु विशेषः, तत्रैव द्विरेफपदस्य लक्षणा । सचायं लक्षणासम्बन्धः प्रकृते साक्षान्नार्हति भवितुम् । किन्तु द्विरेफयदस्य शक्यभूतं यद्रेफद्वयं तस्य " अवयवितासम्बन्धो" भ्रमरपदे तिष्ठति । भ्रमरपदस्य शक्तिरूपः अभिधाख्यो वाच्यवाचकभावः सम्बन्धः स्ववाच्ये मधुपे वर्त्तते । तस्मात् स्वसम्बन्धिसम्बन्धरूपत्वादयं शक्यपरम्परासम्बन्धः फलतीत्येवं लक्षितलक्षणोच्यते । एतदभिप्रायेणैव मुक्तावलीपक्किं विवृण्वता दिनकरभट्टेन "स्ववाच्यरेफद्वयघटितपदवाच्यत्वादिरूपा" इत्युक्तम् ।
अयमभिसन्धिः -यद्यपि “ द्विरेफ' पदस्य न रेफद्वयं शक्यार्थः । किन्तु " द्वौ रेफौ यन्त्र " इति समासेन “ भ्रमर " पदमेव द्विरेफस्य वाच्यभूतोऽर्थः । तस्य ." भ्रमर" पदस्य च मधुपे जन्तौ साक्षादेव सम्बन्ध इति नात्र परम्परासम्बन्धरूपा लक्षितलक्षणा भवितुमर्हति, तथापि " समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् " इति सिद्धान्तेन वैयाकरणमते " द्विरेफ " पदस्य समुदायरूपस्य शक्यार्थो रेफद्वय. विशिष्टं भ्रमरपदमेवेति नात्र लक्षणाचिन्तावतारः । परन्तु न्यायदिनयेऽत्र समासस्य द्वाववयवौ स्तः । अवयविभूतस्य समासस्य तु नैव क्वचिदर्थे शनिः। किन्तु "द्वि" पदस्य द्वित्वसंख्याविशिष्टोर्थः । "रेफ' पदस्य रेफत्वजातिविशिष्टो वर्णविशेषोऽर्थः । “ अभेदसम्बन्धश्च संसर्गो वाक्यार्थ" इति दर्शनानुसारेण च . द्वित्वसंख्याविशिष्टौ रेफो" इत्येव शक्यार्थो भासते । "द्वौ रेफौ यत्र तत्पदं द्विरेफ" इत्याकारकोऽर्थस्तु लक्षणयैव ।
एतस्मिन्मते तु "द्विरफ" समुदायस्य वाक्यभूतस्य रेफद्वविशिष्टे भ्रमरपदे लक्षणा तल्लक्षितभ्रमरपदस्य च मधुपे लक्षणेति रीत्या लक्षितलक्षणोच्यते। परमियमपि केवललक्षणान्त:पातिनी । न ततः स्वतन्त्रभूता। द्विरेफपदस्य शक्यार्थभूतद्वित्वसङ्ख्याविशिष्टरेफस्य साक्षात्सम्बन्धो भ्रमरे, भ्रमरपदद्वारा परम्परासम्बन्धश्च मधुपजन्ताविति शक्यसम्बन्धरूपत्वाल्लक्षणैव । व्याकरणनये द्विरेफपदस्य शक्याओं रेफद्वयविशिष्टं भ्रमरपदं तस्य च मधुपेन सह साक्षात्सम्बन्धवत्त्वादिति कृत्वा नेदमुदाहरणं लक्षितलक्षणायाः । किन्तु -"सिंहो देवदन" इत्यादीनि तस्या उदाहरणानि बोध्यानि । अत्र "समानविभक्रिकानां पदानामभेदेनान्वय" इति नियमेन "सिंहाभिन्नो देवदत्त' इति वाक्यार्थः शक्त्या प्रतीयते । सचानुपपन्न: पशुत्वमनुष्यत्वजात्योः परस्परं विरोधात् । तस्माद्बाधितमुख्याथ सिंहपदं शौर्यक्रौर्यादिधर्मविशिष्टं पुरुषं लक्षयति ।