________________
लक्षणाप्रपञ्चः।
३३६
नात् । शक्त्या तु पृथिवीत्वेनैव बोधो नतु अष्टद्रव्यातिरिकद्रव्यत्वेन नवा गन्धवत्वेन पृथिवीपदस्य पृथिवीपृथिव्योरेव शकत्वात् , शक्यतावच्छेदके च शक्केरस्वीकारे अत्राप्यनियम एव स्यात् । यथा-घटपदशक्यतावच्छेदकं घटत्वमेव नतु घटवृत्ति सदपि कम्बुप्रीवादिमत्वं द्रव्यत्वं वा तथा पृथिवीपदशक्यतावच्छेदकं पृथिवीत्वमेव नतु गन्धवत्त्वादिकम् । तस्मादुभयस्यैव पृथिवीपृथिवीत्वस्य शाब्दबोधे भानम् । लक्ष्यतावच्छेदकस्थले तु बहूनां पदाऽनुपस्थितानामपि भानामति न लक्ष्यतावच्छेदके लक्षणास्वीकारस्यावश्यकतेति भाव इति रामरुद्र भट्टाचार्योक्किसारः ।
(मु०) यत्र तु शक्यार्थस्य परम्परासम्बन्धरूपा लक्षणा सा लक्षित. लक्षणेत्युच्यते । यथा द्विरेफादिपदे रेफद्वयसम्बन्धो भ्रमरपदे ज्ञायते । भ्रमरपदस्य च सम्बन्धो भ्रमरे ज्ञायते । तत्र लक्षितलक्षणा ॥
(प्र० टी० ) लक्षितलक्षणायामाधिक्यमाशङ्क्य जहत्स्वार्थायामेव तस्या अन्तर्भावमाह * “ यत्रत्वि" ति । परम्परासम्बन्धरूपा-स्ववाच्यरेफद्वयघटित. पदवाच्यत्वरूपा । अर्थात् " द्विरेफो रौति " इत्यत्र वाक्यश्रीता द्विरेफपदस्य शक्याथै रकारद्वये शब्दकर्तृत्वस्यानुपपत्तिं मत्वा लक्षणया मधुपरूपार्थं जानाति । अत्र द्विरफ. पदस्य शक्यार्थो रकारद्वयं तस्य मधुपव्यको न साक्षात्सम्बन्धः किन्तु तयोर्द्वयो रेफयोभ्रमरपदे सम्बन्धोऽस्ति, तस्य भ्रमरपदस्य मधुपेन सह सम्बन्ध इत्यनया रीत्या लक्षितलक्षणा । अत्र "स्व" पदेन द्विरेफपदशक्यार्थस्य रेफद्वयस्य ग्रहणम् । ताभ्यांद्वाभ्यां रेफाभ्यां घटितं पदं “ भ्रमर " पदमस्ति । भ्रमरपदवाच्यत्वञ्च मधुपव्यक्ती इत्यनया रीत्या शक्यार्थपरम्परासम्बन्धरूपा लक्षणा लक्षितलक्षणा ।
इदमत्रावसेयम्-" पदीयशक्यसम्बन्धो लक्षणा " इत्युक्तेः पदीयपरम्परासम्बन्ध एव लक्षणा इतीष्टमाभाति । यतः पदस्य साक्षात्सम्बन्धस्तु शक्यार्थेनैव तस्यैव लक्ष्यार्थेन परम्परासम्बन्धो यः सैव लक्षणा । साक्षात्सम्बन्ध एव वाच्य. वाचकभावोऽभिधावृत्तिः शक्तिरिति च वाभाष्यते । परम्परासम्बन्धस्तु लक्षणा वृत्तिः, जघन्यसम्बन्धो वेत्यभिधीयते । यत्र शक्यार्थे वक्तुस्तात्पर्य नास्ति किन्तु तत्स म्बन्धिनि तद् वर्तते तत्रैव लक्षणाश्रीयते नेतरत्रेति राजमार्गः ।
साच सामान्यतो द्विविधा केवललक्षणा लक्षितलक्षणा चेति । पदीयशक्यार्थस्य साक्षात्सम्बन्धः केवल लक्षणा । यथा '' गङ्गायां घोष " इत्यादौ । " गङ्गापदात्तीर बोधो भवतु" इति वक्तुस्तात्पर्य गङ्गापदस्य शक्यार्थ-( जलप्रवाहरूपमुख्यार्थ )स्वीकारे नोपपद्यते तत्पदीयशक्यार्थस्य जलविशेषग्वाहस्य साक्षात्सम्बन्धः संयोगाख्य
* लक्षितेन लक्ष्यते ज्ञायते अनेनेति व्युत्पत्त्या लक्षितपदवाच्यत्वं लक्षितलक्षणापदार्थ: साच न शक्तिर्नवा लक्षणेति तस्या वृत्त्यन्तरत्वमावश्यकमिति प्राचीनकदेशिमतं निराकर्त लक्षणायामन्तर्भावमाह-यत्रत्विति प्राचीना प्रभा।