________________
३३८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे तत्प्रकारकेति । तत्प्रकारकबोधस्य = तीरत्वादिधर्मप्रकारकतीरविशेष्यकबोधस्य लक्षणां विनाप्युपपत्तेः = तीरत्वादिप्रकारकशाब्दबोधनिर्वाहसम्भवा दित्यर्थः । पदानु. पस्थाप्यस्यापि तीरत्वादिल क्ष्यतावच्छेदकस्य शाब्दबोधे भानं सुकरम् । अतिप्रसङ्गस्य तद्धर्मविशिष्टेत्यादिनैव वारणसम्भवादिति भावः । तीरे आश्रयतासम्बन्धेन गङ्गापद. तया तीरस्मरणं शाब्दबोधश्च भवतः, एवं तीरत्वेऽप्यवच्छेदकतासम्बन्धन तादृशलक्षणासद्भावात् तत्प्रकारकस्मरणशाब्दबोधयोरपि नाऽनुपपत्तिरिति परं तात्पर्यम् । तुल्ययुक्त्या उक्ननियमसमतां शक्यतावच्छेदकेऽपि स्मारयति-परन्त्वित्यादिना । एवं क्रमेण अर्थात् तीरत्वादौ पृथग्ल क्षणाभावेऽपि अवच्छेदकतासम्बन्धेन लक्ष्यनिष्ठलक्षणसवाद् यथा स्मृत्यादिविषयत्वोपपत्तिः तद्वदित्यर्थः। शक्यतावच्छदकेऽपि%= गङ्गात्वादौ गोत्वादौ वा शक्तिर्माभूत् = न स्वीकार्येत्यर्थः । तत्र हेतुमाह-तत्प्रकारकेति-लक्षणास्थलवत् तत्प्रकारकशक्यार्थस्मरणं प्रति = घटत्वादिधर्मप्रकारकघटादिविशेष्यकोपस्थिति प्रति । तत्पदस्य = घटादिपदस्य सामथ्य = शकिज्ञानद्वारा स्मृत्यादिप्रयोजकत्वम् । इत्यस्य = एतादृशयुक्तिप्रमाणस्य । सुवचत्वात् = वक्त्रं शक्यत्वादित्यर्थः । “इति विभावनीय" मिति-सम्यगालोचनीयमित्यर्थः । अर्थात् यथा गङ्गादिपदानां तीरादिरूपन्यक्रिमात्रे लक्षणैव तथोकयुत्या घटादिपदानां घटादिव्यतिमात्रे एव शकिपीति युक्तमुत्पश्यामः। लक्ष्यतावच्छेदके लक्षणा नास्ति शक्यतावच्छेदके तु शनिरस्तीति सम्प्रदायचालकैरुक्तमित्यत्र गमकं तु न पश्यामः तद्विद्वद्भिः स्वयमालोच्यामित्याशयो ग्रन्थकारस्य । परन्तु पदानुपस्थाप्यस्यापि संसर्गस्य यथा शाब्दबोधे भानं तथा लक्ष्यतावच्छेदकस्यापि, शक्यतावच्छेदकन्तु पदोपस्थित. मेवेत्याभाति । अधिकं रामरुयां द्रष्टव्यम् । " लक्ष्यतावच्छेदक लक्षणा नास्ती " त्यत्रेदमवधार्यम् - यथा शक्यतावच्छेदके शक्विरस्ति तथा लक्ष्यतावच्छेदके लक्षणा नास्तीत्यत्र किं विनिगमकम् । यदि शक्यतावच्छेदके शकिर्न स्वीक्रियेत तर्हि यथा पृथिवीपदात् पृथिवीत्वेन पृथिव्याः शाब्दबोधे भानं तथाऽष्टद्रव्यातिरिकद्रव्यत्वेन गन्ध. वत्वेन च शाब्दबोधापत्तिः स्यात् । " पृथिवी पृथिवीपदशक्या " इतिवत् “ अष्टद्रव्यातिरिकद्रव्यं पृथिवीपदशक्यम् " " गन्धवद्र्व्यं पृथिवीपदशक्यम् ” इति च शनिज्ञानस्य सम्भवात् । शक्यतावच्छेदके च शक्तिस्वीकारे पृथिवीत्वपृथिव्योरेव पृथि. वीपदस्य शक्कतया तदुभयोरेव शक्यार्थयोः शाब्दबोधे भानमिति नियमः ।
लक्षणया च भिन्नपदार्थस्यैव भानं, यथा गङ्गापदाल्लक्षणया तीरस्य भिन्नस्य भान तथा तीरत्वस्यापि गङ्गातीरत्वस्यापि च भानं भविष्यत्येव । एवं सति लक्ष्यता. वच्छेदके लक्षणास्वीकारस्य न किमपि प्रयोजनं पश्यामः। किञ्च-यथा लक्षणया तीरं गङ्गातीरं वा प्रवाहसंयोगीत्यत्र तीरत्वेन गङ्गातीरत्वेन वा यत्किञ्चिदेकधर्मावच्छिन्नविषयक एव शाब्दबोध इति नियमो नास्ति, कदाचित् तीरत्वेन कदाचिद्गङ्गातीरत्वेन बोधदर्श