________________
लक्षणाप्रपञ्चः। arrinrrrrrrrrrrrrrrrrrrrrrrammam
लक्षणा । एवमन्यत्रापि बोध्यम् । एवञ्च-"छत्रिणो यान्ती" त्यस्य वाक्यस्यएकसार्थवाहित्वे = एकसार्थवाहित्वविशिष्टे छत्रिपदातिगजतुरगादिघटितसमुदायत्वावच्छिन्ने इति निष्कर्षः । इयमेवेति-शक्यसाधारणधर्मावच्छिन्नलक्षणैव । “ एक सार्थवाहिनो यान्ती "ति शाब्दबोधः।
(मु०) यदि चान्वयानुपपत्तिलक्षणाबीजं स्यात्तदा क्वचिद्गङ्गापदस्य तोरे कचिद्धोषपदस्य भत्स्यादी लक्षणेति नियमो न स्यात् । इदं तु बोध्यम्-शक्यार्थसम्बन्धो यदि तीरत्वेन रूपेण गृहीतस्तदा तीरत्वेन तीरबोधः । यदि तु गङ्गातीरत्वेन रूपेण गृहीतस्तदा तेनैव रूपेण स्मरणम् ॥ अत एव लक्ष्यतावच्छेदके न लक्षणा, तत्प्रकारकबोधस्य तत्र लक्षणां विनाप्युपपत्तेः । परन्तु एवं क्रमेण शक्यतावच्छेदकेऽपि शक्तिर्न स्यात्तत्प्रकारकशक्यार्थस्मरणं प्रति तत्पदस्य सामर्थ्यमित्यस्य सुवचत्वादिति विभावनीयम्। . (प्र० टी० ) प्राचां मतं पुनः कटाक्षयति-" यदिचे "ति । चोऽवधारणे । स चान्वयानुपपत्तिरित्यस्योत्तरं योज्यः । यद्यन्वयानुपपत्तिरेवेत्यर्थः । “ गङ्गायां घोष" इत्यत्र गङ्गापदशक्ये घोषपदशक्याधारत्वान्वयानुपपत्तिज्ञानमेव लक्षणाबीजम् - लक्षणाया ग्राहकं स्यात् तदा क्वचित् = " तीरवृत्तिर्घोष" इति बोधतात्पर्येण उच्चारिते “ गङ्गायां घोष" इति वाक्ये गङ्गापदस्य तीरे लक्षणेति योजना । कचित् मत्स्यतात्पर्येण उच्चारिते “ गङ्गायां घोष" इति वाक्ये घोषपदस्य मत्स्यादौ लक्षणेति योजना । "इति नियमो न स्यात्"-उक्काकारा व्यवस्था न भवेत् ।
अयमस्याशयः-" यत्र वाक्ये यत्पदं येन वक्त्रा यदर्थबोधनतात्पर्यमुद्रया उच्चारितं तत्पदं तस्मिन्नेवार्थे लाक्षणिकं नेतरत्रेति" नियमः । परन्तु यदि अन्वयानुपपत्तिरेव लक्षणाबीजं स्यात् । तदा क्वचिद् गङ्गापदस्य तीरे घोषपदस्य च मत्स्यादिजलचरजन्तौ लक्षणा न स्यात् यतो यत्र गङ्गापदस्य तीरे तात्पर्यग्रहः घोषपदस्य च मत्स्यादौ तात्पर्यग्रहः तादृशस्थले घोषस्य तीरे मत्स्यादीनाच्च जलप्रवाहरूपेऽर्थेऽ. न्वयानुपपत्तिर्नास्ति किन्वन्वयोपपत्तिरेव । तथाचान्वयानुपपत्तिवादिनये उक्ननियमस्य भङ्गप्रसङ्गः स्यात् । तस्मात्तात्पर्यानुपपत्तिरेव साधीयसीति नव्यं मतमेव ज्यायः ।
अन्यदपि लक्षणास्थलेऽवश्यं द्रष्टव्यमस्तीति दर्शयति-" इदन्तु" इति । व्याख्यातप्रायमधस्तात् । “ अत एवे "ति-तद्धर्मविशिष्टे लक्षणाग्रहस्य तेन रूपेणो. पस्थितिं प्रति शान्दबोधप्रति च कारणत्वादेवेत्यर्थः । वृत्तिज्ञान-स्मरण-शाम्दबोधानां समानप्रकारकत्वेन कार्यकारणभावस्वीकारेदेवेति तु परमार्थः । लक्ष्यतावच्छेदके = लध्यतावच्छेदकतीरत्वादौ । न लक्षणा = गङ्गापदशक्यप्रवाहसंयुक्रसमवायरूपलक्षणा न स्वीकार्यत्यर्थः । तीरत्ववृत्तिताहशसमवायस्य प्रयोजनाभावेन लक्षणात्वानभ्युपगमादिति भावः । ननु-कथं तर्हि तीरस्वादिलक्ष्यतावच्छेदकस्य भानमित्याह