________________
३३६
.
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः।
[शब्दखण्डे
घटकगङ्गापदशक्यार्थस्याऽनुपपत्तिप्रतिसन्धानानन्तरं पुनःस्मृतगङ्गापदनिरूपितस्य तीरेसीरत्वावच्छिन्ने गृहीतत्वात् = ज्ञातत्वात् तीरस्य स्मरणम् = तीरत्वविशिष्टविषयकस्मरणमित्यर्थः । ततः = तादृशस्मरणात् शाब्दबोधः = तीरत्वविशिष्टशाब्दबोधः । अर्थात् गङ्गापदेन ज्ञातलक्षणावृत्तेः पुरूषस्थ तीरोपस्थितिर्भवति । ततश्च दर्शितद्विविधतात्पर्यरीत्या " गङ्गातीरे घोष" इति “ तीरे घोष" इति वा यथायथं शाब्दबोधः = वाक्यार्थबोधः । इयञ्च “ जहत्स्वार्था " सर्वथा शक्यार्थस्य परित्या. गात् । " गङ्गातीरे घोष" इति शाब्दबोधपक्षे तु इदमुदाहरणमपि अजहत्स्वार्थाया ऐवीत ज्ञेयम् । तात्पर्यानुपपत्तरेव सर्वत्रानुगततया लक्षणाबीजमिति स्थापयितुं युक्तिमारचयति--*" परन्तु" इत्यादिना । यद्यन्वयानुपपत्तिलक्षणाबीजं स्यात् तदा “ यष्टी:प्रवेशय" इत्यत्र यष्टिधरबोधतात्पर्येण प्रयुक्रतादृशवाक्यघटकयष्टिपदस्य लक्षणा न स्यात् = यष्टिधरे लक्षणा न स्यादित्यर्थः । तत्र हेतुमाह-" यष्टिषु" इति । दण्डेष्वित्यर्थः । प्रवेशान्वयस्य = गृहप्रवेशसंसर्गस्य अनुपपत्तेरभावात् नहि यष्टीनां गृह प्रवेशसम्बन्धोऽघटित इति कोपि वQ समर्थ इति भावः । किन्त्वत्र वक्तुस्तात्पर्य मेवानुपपन्नं भवति, तेन तात्पर्यानुपपत्तलक्षणाबीजस्वीकारेण तत्प्रवेशे = यष्टिमात्रप्रवेशे भोजनतात्पर्यानुपपत्त्या-भोजनविषयकवक्तुरिच्छाया + अनुपपश्या यष्टिघरेषु लक्षणा = भोक्तृणां प्रवेशस्यैव तात्पर्यविषयत्वादिति भावः । अजहत्स्वार्थालक्षणास्थलेपि तात्पर्यानुपपत्तिमेव स्थापयति-" एवं काकेभ्यः" इति । इत्यादाविति---इत्यादिवाक्यघटककाकपदस्य । दध्युपघातके = दधिनाशकत्वावच्छिन्ने । लक्षणा = अजहत्स्वार्थालक्षणेत्यर्थः सर्वतः = सर्वेभ्यो दध्युपधातकेभ्यः । दधिरक्षायाः = दधिनिष्ठनाशाप्रतियोगितायाः । तात्पर्येति-एवञ्च तात्पर्यानुपपत्तिरेव लक्षणाबीजमिति भावः । इदमत्रावधार्यम्
___ " काकेभ्यो दधि " इत्यत्र “ भीत्रार्थानां भयहेतुः" ( । ४ । २५) इति सूत्रेण अपादानसन्ज्ञायाम्-"अपादाने पञ्चमी" (२ । ३ । २८) इति सूत्रेण काकपदोत्तरं पञ्चमी । तस्या जन्यत्वमर्थः । व्यापारो नाशानुत्पत्तिश्च धात्वर्थः । एकपदार्थयोरपि व्युत्पत्तिवैचित्र्याद् विशेषणविशेष्यभावेनान्वयः । तथाच-" दध्युपघातकजन्यनाशोत्पत्तिप्रतियोगिकत्वत्कर्तृकव्यापारप्रयोज्याभावाधिकरणं दधि " इत्यन्वयबोधः । अधिकन्त्वन्यतोऽवसेयम् । अजहरस्वार्थाया उदाहरणान्तरमाह"एवं छत्रिण" इति । अत्र न सर्वथा मुख्यार्थस्य त्यागः । दध्युपघातकत्वस्य मुख्यार्थतावच्छेदकीभूतकाकत्वसामानाधिकरण्येन मुख्यार्थत्वेऽपि विडालादिवृत्तित्वेन प्रमुख्यार्थत्वात् । यदि तु वक्तुः काकमानत एव दधिरक्षायां तात्पर्य तदा न
• एतेन अन्वयानुपपत्तलक्षणाबीजत्वं निराकरोतीत्युक्तं भवति । भोजनतात्पर्यविषयकाऽनुपपत्तिप्रतिसन्धानेनेत्यर्थः ।