________________
लक्षणाप्रपञ्चः।
३३५
(मु०) गङ्गायां घोष इत्यादौ गङ्गापदस्य शक्यार्थे प्रवाहरूपे घोषस्यान्वयानुपपत्तिस्तात्पर्यानुपपत्तिर्वा यत्र प्रतिसन्धीयते तत्र लक्षणया तीरस्य बोध इति ॥ सा च शक्यसम्बन्धरूपा।
(प्र० टी०) शब्दस्यार्थबोधनाय द्वौ व्यापारौ मुख्योऽमुख्यश्च । मुख्यः शकिर. भिधा वेति सा निरूपिता । यत्र तु मुख्येऽर्थे अन्वयानुपपत्तिः तात्पर्यानुपपत्तिर्वा तत्राsमुख्यो व्यापारो गृह्यते स एव "लक्षणा" इत्याख्यायते । अतस्ता लक्षयति-परमूले " लतणे" ति । शक्यस्य-ज्ञक्त्योपस्थापितस्यार्थस्य सम्बन्धः = तत्सम्बधिनि सम्बन्धः अर्थात् मुख्यार्थवाचकपदस्यामुख्येऽर्थे या वृत्तिः सा लक्षणा ज्ञेया। नच व्यञ्जनायमतिव्याप्तिस्तस्या अनङ्गीकारात् । एतदेव कारिकास्थं वृत्तं घटयितुमाहमूले “ गङ्गायां घोष" इति । .
अस्यायमाशयः-"गङ्गायां घोष" इत्यत्र गङ्गापदस्य शक्यार्थी जखप्रवाहविशेषः । तत्र घोषपदशक्यार्थस्य आभीरपल्लीरूपस्य अन्वयानुपपत्तिरस्ति, नहि जलप्रवाहे ग्रामस्य साक्षात्सम्बन्धः । तथासति तस्यापि प्रवहणापत्तेः । प्रवाहरूपस्य मुख्यार्थस्य तु साक्षासम्बन्धस्तीरे गृहीतः, तस्माद्यः प्रवाहस्य तीरे सम्बन्धः स एवं गङ्गापदस्य तीररूपार्थबोधाय लक्षणाव्यापारः । " शक्यपरम्परासम्बन्धो लक्षणा "इति निष्कर्ष इत्याशयेनाह- साच शक्यसम्बन्धरूपा" इति । किन्तु अन्वयानुपपत्तिः तात्पर्यानुपपत्तिश्च लक्षणाबीजमिति प्राश्चः । “यष्टीः प्रवेशय" इत्यत्र अन्वयानुपपत्तेरभावात्सर्वत्रानुगता तात्पर्यानुपपत्तिरेव तद्वीजमिति नव्या इत्याशयेनाहपरममूले “ तात्पर्यानुपपत्तित" इति । तात्पर्यन्तु- गङ्गापदाद् गङ्गातीरबोधो भवतु" इतीच्छारूपं, “ गङ्गापदाद् तीरबोधो भवतु " इतीच्छारूपं घेति तस्यानुपपत्तिः । अन्वयस्य पदपदार्थसंसर्गस्य अनुपपत्तिरयोग्यतेत्यर्थः । तदेतदमिमग्रन्थेन स्फुटीभविष्यति ।
(मु०) तथाहि-प्रवाहरूपशक्यार्थसम्बन्धस्य तीरे गृहीतत्वातीरस्य स्मरणम्, ततः शाब्दबोधः । परन्तु यद्यन्वयानुपपत्तिर्लक्षणाबीजं स्यात्तदा यष्टी:प्रवेशयेत्यत्र लक्षणा न स्यात्, यष्टिषु प्रवेशान्वयस्यानुपपत्तेरभावात् । तत्र च यष्टिप्रवेशे भोजन तात्पर्यानुपपत्त्या यष्टिधरेषु लक्षणा ॥ एवं काकेभ्यो दधि रक्ष्यतामित्यादौ काकपदस्य दध्युपघातके लक्षणा सर्वतो दधिरक्षायास्तात्पर्यविषयत्वात् । एवं छत्रिणो यान्तीत्यादी छत्रिपदस्यैकसार्थवाहित्वे लक्षणा । इयमेवाजहत्वार्थी लक्षणेत्युच्यते एकसार्थवाहित्वेन रूपेण छत्रितदन्ययोोधात् ॥
(प्र० टी० ) स्वोकमर्थं स्वयं विवृणोति--" तथाही" त्यादिना । म्याख्यातप्रायमिदमधस्तात्तथापि किश्चिद् व्याख्यायते--प्रवाहरूपति । उदाहृतवाक्य