________________
३३४
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे
मानयेति वाक्यघटपङ्कजपदनिरूपितरूढिशक्त्याश्रयपदस्येत्यर्थः ) बाधा-समभिव्याहृतपदार्थेन तात्पर्यानुपपत्तिरूपो बाधः प्रतिसन्धीयते-निर्णीयते । अत्र "प्रतिसन्धीयते" इत्यस्यानन्तरं "कुमुदत्वेन च बोधे तात्पर्यम्' इति शेषण पूरणीयम् । तत्र-तादृश. वाक्ये तादृशवाक्यघटकपङ्कजपद इत्यर्थः। लक्षणया शक्यसम्बन्धरूपया जघन्यया वृत्त्या कुमुदादेवोंधः-कुमुदत्वादिप्रकारकशाब्दबोध: । यत्र तु-याहशवाक्यघटकपङ्कजपदे कुमुदत्वेन रूपेण बोधे न तात्पर्यज्ञानम् = कुमुदत्वावच्छिन्नविषयताशालिप्रतीतीच्छयोच्चरितत्वज्ञानाभाव इत्यर्थः । पद्मस्य च-पद्मत्वावच्छिन्नस्य च वाधः-समभिव्याहृत पदार्थेन सहान्वयानुपपत्तिरूपो बाधः अन्वयासम्भवनिर्णय इत्यर्थः । तत्राऽवयवशक्तिमात्रेण पङ्कजनिकर्तृत्वप्रकारकस्मृत्येत्यर्थः । निवाहः पङ्कजनिकर्तृत्वप्रकारककुमुदविशेष्यकशाब्दबोधसम्भव इति । पाहुः-चिन्तामणिकाराः शब्दखण्ड इत्यर्थः । अत्र बहुवक्रव्यमपि ग्रन्थगौरवभयाद् बालानुपयोगाच्च नोकम् । यत्र तु स्थल पद्मादाविति-अवयवशक्निनिरपेक्षपद्मबोधतात्पर्येण प्रयुक्लपङ्कजपदरूढ्यर्थस्थलपद्मादौ ।
आदिना भित्त्यादिषु लिखितपद्मपरिग्रहः । अवयवार्थस्य-तादृशपङ्कजपदनिरूपिपङ्कजनिकर्तृत्वरूपस्य बाधः अन्वयानुपत्तिप्रतिसन्धानम् । “ वर्तते " इति शेषः । तत्र समुदायशक्त्या तादृशवाक्ये रूढिशक्त्या पद्मत्वेन रूपण बोधः पद्मत्वप्रकारेणैव शाब्दबोधः नतु कङ्कजनिकर्तृत्वप्रकारेणापीति । यदित्विति-स्थलपङ्कजं विजातीयमेव " विभाव्यते" इति शेषः। तथाच-स्थलपङ्कजं विजातीयमेवेति यदि विभाव्यते इति योजना । तदा विजातीयविभावनाकाले लक्षणयैवेति = पद्मसादृश्यप्रकारेण स्थलपद्मबोध: पङ्कजपदेनेत्यर्थः ।
अस्यायं सक्षिप्ताशयः-अवयवशक्त्याऽपि प्रथमं समुदायशक्त्युपस्थित. स्यैवार्थस्य बोधो भवति समुदायशक्लेर्बलवत्त्वादिति सर्वसम्मतम् । परन्तु यत्र रूढिशक्त्या मुख्यार्थो न घटते किन्तु तस्य बाधोऽवसीयते तत्र लक्षणाऽऽश्रयणीया । तेन पङ्कजपदेनापि कुमुदादेर्बोधो यदि वक्तुस्तात्पर्यमिष्यते । यत्र तु 'कुमुदत्वेन रूपेण बोधो जायता" मिति वक्तुस्तात्पर्यज्ञानं नास्ति पद्मत्वस्य च बाधोस्ति तादृशस्थले पङ्कजादिपदं यौगिकमेव । स्थलपङ्कजस्य-स्थलारविन्दस्य वैजात्ये तु पङ्कजपदस्य पङ्कजनिकर्तृरूपनुख्यार्थस्य बाधसत्त्वाल्लक्षणैवेति शम् । यौगिकरूढं लक्षयति“यत्रावयवे"ति। यादृशपदनिरूपितावयवशक्त्याश्रयस्य यादृशपदनिरूपितरूढिशक्त्या. श्रयस्य च स्वातन्त्र्येण अर्थान्तरमविषयीकृत्येत्यर्थः । “यथे"ति-"ऊवं भिनत्ती"ति व्युत्पत्तेरवयवशक्तिद्वारा तरुगुल्मादिरूपोर्थ :। समुदायशक्त्या च यागविशेष: । "उद्भिदा यजेत पशुकाम " इत्यादिश्रुतिविहितः । अधिकन्तु काव्यप्रकाशटीकायां मया प्रपञ्चितम् ।
(का०) लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तितः ।