________________
पदविचारः।
"मण्डं लाती" त्येवमवयवार्थे न शक्तं किन्तु अवयवशक्त्यपेक्षां विनैव सूर्यादिरोधके कुण्डलाकारे परिधौ शक्तम् । * योगरूढं लक्षयति-यत्रत्वि'ति । अर्थः पूर्ववद्वोध्य: उदाहरति-यथे"ति । लक्ष्ये लक्षणं घटयितुमाह-"तथाही"ति। अवयवशक्तयेति “पङ्काजायते इति पङ्कजम्" इत्याकारयाऽवयवशक्त्येत्यर्थः । पाशङ्कय समाधत्ते"नचे"ति । कवलशक्त्या -रूढिज्ञानाऽसहकृतावयवशक्तिज्ञानजन्यार्थस्मृत्येत्यर्थः । प्रयागः स्यादिति = शाब्दबोधापत्तिरित्यर्थः । रूढिज्ञानस्येति-रूढिप्रकारकज्ञानस्येत्यर्थः इदं समाधानन्तु प्राचां मतानुरोधेन । तेषामयमाशयो यत्समुदायार्थावयवार्थों भयविधस्थले केवलावयवार्थबोधं रूढिः प्रतिबध्नाति तस्मात्पङ्कजपदं नावयवशक्त्या कुमदे = रात्रिविकाशिनि पद्मविशेषे शक्तम् । किन्तु अवयवशक्तौ सत्यामपि समुदाय. शक्तिबलात् पद्म एव शक्तम् । अतो योगरूढमिदम् ।
(मु० ) वस्तुतस्तु समुदायशक्त्युपस्थितपद्मऽवयवार्थपङ्कजनि. कर्तुरन्वयो भवति सांनिध्यात् । यत्र तु रुढ्यर्थस्य बाधःप्रतिसंधीयते तत्र लक्षणया कुमुदादेर्बोधः । यत्र तु कुमुदत्वेन रूपेण बोधे न तात्पर्यशानं पद्मत्वस्य च बाधस्तत्रावयवशक्तिमात्रेण निर्वाह इत्याहुः। यत्र तु स्थलपद्मादाववयवार्थवाधस्तत्र समुदायशक्त्या पद्मत्वेन रूपेण बेधः । यदि तु स्थलपङ्कजं विजातीयमेव तदा लक्षणयैवेति । यत्रावयवार्धरूढ्यर्थयोः स्वातन्त्र्येण योधस्तद्योगिकरूढम् । यथोद्भिदादिपदम् । तत्र-हि उद्रेदनकर्ता तरुगुल्मादि बुध्यते यागविशेषोऽपीति ॥ ८१ ॥
(प्र० टी० ) अत्रैव स्वसम्मतं छमणिकारमतमाह-"वस्तुतस्त्वि "ति । समुदायशक्त्युपस्थितपद्म-रूढिज्ञानजन्यस्मृतिविषयपद्म एवेत्यर्थः । अत्रावधारणार्थकस्तुशब्दः पद्मपदोत्तरं योज्यः। अवयवार्थपङ्कजनिकर्तः योगशक्निज्ञानजन्यस्मृतिविषयपङ्कजनिकतत्वावच्छिन्नस्य । अन्वयो भवति-शाब्दबोधो जायत इत्यर्थः । सान्निध्यादिति-रूढयर्थस्य प्राथमिकोपस्थितिविषयत्वात् "न्यक्तिवचनानां सन्निहितविशेषपरत्वम्" इति नियमादिति भावः । यत्रत्विति-" यादृशपङ्कजमानय" इति वाक्यघटकपङ्कजपदे । ( यतस्विति घटकत्वं सप्तम्यर्थः । तस्य रूढावन्वयः । यादृशपङ्कज
___* उक्तञ्च शब्दशक्तिप्रकाशिकायाम्-यन्नाम स्वावयववृत्तिलभ्यार्थेन समं स्वार्थस्यान्वयवोधकृत् तन्नाम योगरूढम् । यथा पङ्कजकृष्णसाधर्मादि । तदि स्वान्तनिविष्टाना पादिशब्दानां वृत्तिलभ्येन पङ्कजानकादिना समं स्वशक्यस्य पद्मादेरन्वयानुभावकम् "पङ्कज" मित्यत: “पङ्कजनिक पद्मम्" इत्यनुभवस्य सर्वसिद्धत्वात् ।
*गङ्गेशोपाध्यायमतमित्यर्थः।।
व्यक्तिवचनानां किश्चिमतितात्पर्यकाणां सन्निहितविशेषपरत्वम् उपस्थितार्थविशेषपरत्वम् । तथाच पझे तात्पर्यसत्त्वात्तदेव पङ्कजनिकर्तृतया योगशक्तिजन्यज्ञानविषयो भवति न कुमुदादि अनुपस्थितत्वादित्यर्थः ।