________________
३३२ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः। [शब्दखण्डे स्वम्बोध्ये । अस्मदः उच्चारणकर्तरि । स्वनिजादिपदानां समभिन्याहृतपदोपस्थाप्ये शक्तिः । समाभिव्याहारश्चात्रैकवाक्यघटकत्वं बोध्यम् । एवशब्दस्य कैवल्यविशिष्टे शक्तिः । कैवल्यम्च सजातीयद्वितीयराहित्यमित्येवमायधिकं न्यायप्रदीप-शक्तिवादरामरुद्रयादिष्वनुसन्धेयम् ।
इतिशक्तिग्रन्थः
(मु० ) शक्तं पदं, तच्चतुर्विधम्, क्वचिद्यौगिकं क्वचिदृढं क्वचिद्यो. गरूढं कचिद्यौगिकरूढम् । तथाहि-यत्रावस्वार्थ एव बुध्यते तद्यौगिकम् । यथा पाचकादिपदम् । यत्रावयवशक्तिनरपेक्ष्येण समुदायशक्ति. मात्रेण बुध्यते तद्रूढम् । यथा गोमण्डलादिपदम् । यत्र तु अवयवशक्तिविषये ससुदायशक्तिरप्यस्ति तद्योगरूढम् । यथा पङ्कजादिपदम् । तथाहि-पङ्कजपदमवयवशक्त्या पङ्कजनिकर्तृत्वरूपमर्थ बोधयति । समु. दायशक्त्या च पनत्वेन रूपेण पनं बोधयति । नच केवलयाऽवयवशक्त्या कुमुदे प्रयोगः स्यादिति वाच्यं, रूढिज्ञानस्य केवलयौगिकार्थज्ञाने प्रतिबन्धकत्वादिति प्राञ्चः॥
(प्र० टी० ) "पदज्ञानन्तु करण" मित्युक्तं तत्र किं पदं कतिविधञ्च तदित्याकाङ्क्षायां पदं लक्षयति विभजते च "शक्त" मिति । वाचकतासम्बन्धेननिरूपकतासम्बन्धेन शक्तिविशिष्टं पदम् । तच्चतुर्विधम् । चतस्रो विधा दर्शयतिA 'क्वचिद्यौगिक' मित्यादिना । प्रत्येकं सोदाहरणं लक्षयितुमाह-"तथाहि" इत्यादिना । यौगिकं लक्षयति-'यत्रे'ति यादृशपद इत्यर्थः । अवयवार्थः = अवयवप्रतिपाद्यार्थः बुध्यते = प्रमितिविषयतावान् भवतीत्यर्थः । 'यथेति-पाचकः इत्यत्र "पच्" इत्यकः प्रकृतिरूपोऽवयवः । “एखुल्” इत्यपरः प्रत्ययरूपोऽवयवः । पचतीति पाचक इति व्युत्पत्तेः । एवमुभयावयवार्थः "पाककर्ता" इति बुध्यते । तस्मात्'पाचक" इति यौगिकं पदम् । एवमन्यदपि पाठकादि बोध्यम् । रूढं, C लक्षयति'यत्रावयवशक्तीति । याहशे पदे अवयवशक्ति विमापीत्यर्थः । यथा-गोपदस्य प्रकृतिप्रत्ययसमुदायरूपस्य गोस्वजातौ त्रित्वे वा शक्तिरस्ति । “गमेोः" ( उ० २।) इति पाणिनयिानुशासनाद् गोपदव्युत्पत्तेः गमनकर्तृत्वरूपावयवार्थे सत्यपि नात्र "गच्छतीति गौ" रित्येवं व्युत्पत्तित्वभ्यावयवार्थो बुध्यते । एवं "मण्डल" पदमपि
___A उच्चत शब्दशक्तिप्रकाशिकायाम्
योगलभ्यार्थमात्रस्य बोधकं नाम यौगिकम् ।
समासस्तबिताक्तश्च कृदन्तश्चेति तत्रिथा ॥ Cढ़ सकेतवन्नाम सैव सम्झेति कर्त्यित' इति शब्दशक्तावेवोक्तम् ।