________________
naaranan...
शक्तिवादे न्यायमतोपसंहारः ।। सर्वसा स्तु-दर्शितरीत्या शक्यतावच्छेदकांशे गोव्यक्क्रीनामपि प्रवेशे तासाञ्चानन्त्येऽवच्छेदकांशानन्त्यात शाब्दबोधम्प्रति कारणतावच्छेदककोटी गौरवमेवेत्येवं बोध्यम् । मीमांसकमतखण्डनपूर्वकंस्वमतमुपसंहरति “तस्मादे"त उक्तरीत्या दोषे सति जातिशक्रिस्वीकारानहत्वात् अर्थात् केवलायां जातौ अवयवसंस्थानरूपायामाकृतौ व्यवौ वा शक्रिस्वीकारे तदितरबोधानुपपत्या कल्प्यमाना-ताशबोधनिर्वाहाय सर्वानुमता शक्तिः गोपदात्सास्नादिमत्वविशिष्टा गौर्बोव्या" "घटपदात् कम्बुग्रीवादिमस्वविशिष्टघटादिर्बोद्धव्य" इत्याकारच्छारूपा शक्तिरित्यर्थः । व्यक्तावेव-तत्तज्जात्याकृतिविशिष्टव्यक्तावेव । विश्राम्यति-पर्यवस्यति । एवञ्च-जात्यादिनित्व एव शक्तिः स्वीकार्या । एतादृशसिद्धान्तमूलन्तु --न्य यशास्त्रस्य द्वितीयाध्यायीयद्वितीयाह्निकस्थात् "तदर्थे'-इत्यादिसूत्रादारभ्य "व्यक्क्रयाकृतिजातयस्त पदार्थः" (न्या० २ । २। ६५) इत्यन्तानि सूत्राणि ज्ञयानि । तत्रैव न्यायसूत्रभाष्ये प्रत्येकशक्तिवादः सदोषोऽपि पर्णितः। मया तु ग्रन्थगौरवभीत्या प्रकृतग्रन्थयोजनैव कृता ।
__ कुब्जशक्तिवादिनस्तु-जातिविशिष्टा व्यक्तिरेव शक्या । परन्तु जातिशक्तिभाने सत्येव पदादर्थस्मृत्यनन्तरं वाक्यार्थबोधो जायते नान्यथा । इत्थञ्च व्यक्ती शक्तिज्ञानस्य नोपयोगः तासामानन्त्यात् । एवञ्च व्यक्तिः स्वरूपसत्येव पदार्थस्मृतिहेतुर्नतु तज्ञानमयपेक्षितमित्याहुः । अयमभिसन्धिः
___ यद्यपि नागृहीतविशेषणान्यायेन घटपदस्य घटत्वविशिष्टव्यक्ती शक्तत्वात् जात्याकृती घटपदवाच्ये स्तः तथापि घटे घटत्वजातिज्ञानमेव पदार्थबोधहेतुर्नान्तरीयकं व्यक्तिज्ञानमपि तासामानन्त्यात् । “ घटपदवाच्ययोर्घटघटत्वयोः शाब्दबोधम्प्रति घटत्वीयं शक्तिज्ञानमेव कारणमिति तु निष्कर्षः । ___इदन्तु बोध्यम्-तच्छब्दस्य वक्तृबुद्धिविषयतावच्छेदकीभूतघटत्वाद्यवच्छिन्ने शक्तिः । इदमेतदोः प्रत्यक्षबुद्धिविषयेऽदस: परोक्षबुद्धिविषये शक्तिः । अत एव तेषां विभिन्नार्थकत्वम् । एवं तदोऽपि । किम्पदस्य अनिर्धारितविशेषे जिज्ञासाविषयत्व. विशिष्टे शक्तिः । सर्वपदस्य व्यापकत्वे । " सर्वे घटा रूपवन्त" इत्यादौ " घटत्वव्या. पकं रूपवत्त्व"मिति बोधात् । त्वम्पदस्य तत्कालीनसम्बोध्यचैत्रत्वादिशक्यतावच्छेदकम्। अहम्पदस्य तत्कालीनस्वतन्त्रोच्चारयितृचैत्रत्वादि । 'स्वातन्त्र्योक्त्या च वाच्यस्त्वया मद्वचनात् स राजे" त्यादौ न मत्पदात्कवेर्बोधः । किञ्च-धेन्वादिपदच धानकर्मत्वगोत्वोभयादिविशिष्टार्थकम् । यथा-नानाधर्मविशिष्टकर्मिवाचकपक्षाच्छक्तिप्रमातो नैकं धर्म पारत्यज्यापरधर्मबोधस्तथा सूर्यत्वचन्द्रत्वरूपनानाधर्मविशिष्टनानाधर्मि: वाचकपुष्पवन्तादिपदाच्चन्द्रत्वादिकं परित्यज्य न सूर्यत्वादिप्रकारकबोधः । अत्र शक्तेरैक्यान्न नानार्थता। एवं सर्वनामपदानामपि बुद्धिविषयतावच्छेदकत्वेन शक्तेरैक्यान्न नानार्थता। परन्तु घटत्वादिषु तत्पदजन्यबोधविषयत्वं भासते। तानि विशेषणान्युच्यन्ते । बुद्धिविषयतावच्छेदकत्वन्तु सङ्केते नावगाह्यते तदुपलक्षणमित्युच्यते । युष्मद