________________
३३०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[शब्दखण्डे
शनिग्रहः शक्तिज्ञानं जातं तदा व्यक्ती-गोव्यक्तावेव शक्ति: मुख्यशक्तिःशक्यताव. च्छेदकत्वाऽसमानाधिकारणशक्तिरिति यावत्, अनुभवसिद्धा-भवन्मतेऽन्यथाख्यातेरभावादुक्ताकारं विशिष्टं ज्ञानं प्रमात्मकमपीत्यर्थः । यदि तु गोत्वं शक्यम="गोत्वं गोपदशक्यम् " इत्येव-इत्याकारकमेव शक्तिग्रहः-शक्तिज्ञानं जातं तदा भवन्मते गोत्यप्रकारकपदार्थस्मरणम्-गोत्वप्रकारकञ्च तत्पदार्थम्मरणम् अर्थात् गोव्यक्ति. रूपस्य पदार्थस्य स्मरणमुपस्थितिरूपं शाब्दबोधश्च-गोत्वप्रकारकगोव्यक्तिविशेष्यकशाब्दबोधश्च न स्यात्नोत्पत्तुमर्हति । कथमितिचेदित्याह- समानप्रकारक. त्वेने "ति । समानप्रकारकत्वेन शक्तिज्ञानस्य पदार्थस्मरणं प्रति हेतुस्वादित्येका योजना, समानप्रकारकत्वेन पदार्थस्मरणस्य शाब्दबोधम्प्रति हेतुत्वादित्यपरा योजना । एवं सति “ अत्रैव शक्ति ज्ञानस्योपयोग" इति पूर्वग्रन्थविरोधोऽपि न । अस्यायमर्थः ---"यद् यत्प्रकारकं यद्विशेष्यकं शक्तिज्ञानं भवति तत् तत्प्रकारकं पदार्थस्मरणं, तत्प्रकारकतद्विशेष्यकशाब्दबोधञ्च जनयती"त्यस्ति नियमः । अर्थात् गोत्वे शक्तिग्रहे सति गोव्यक्तिपदार्थस्य कथं स्मरणं, कथञ्च शाब्दबोधे गोन्यक्तिनिष्ठा विशेष्यता भासेत उक्तनियमविरुद्धत्वादिति सूक्ष्म निरीक्ष्यतां मीमांसकेन । तथाच-मीमांसकमते शाब्दबोधे व्यक्तिभानानुपपत्तिरेव महदूषणमिति भावः। __ (मु०) किंच-गोत्वे यदि शक्तिस्तदा गोत्वत्वं शक्यतावच्छेदकं वाच्यम् । गोत्वत्वं तु गवितरालमवेतत्वे सति सकलगोसमवेतत्वम् । तथा च गोव्यक्तीनां शक्यतावच्छेदकेऽनुप्रवेशात्तवैव गौरवम् । तस्मात्त. तज्जात्याकृतिविशिष्टतत्तद्वयक्तिबोधानुपपत्त्या कल्प्यमाना शक्तिीत्या. कृतिविशिष्टव्यक्ती विश्राम्यतीति ॥
(प्र० टी०) जातिशक्तिवादे गौरवमप्याह-किञ्चे"ति । गोत्वे यदि शक्ति. रित्यन्वयः । तव मते इति शेषः । “गोपदाद् गोत्वं बोद्धव्यम्" इत्याकारकेश्वरेच्छारूपा शक्कियदि अभिमतेति शेषः । तदा गोत्वत्वं शक्यतावच्छेदकं गोस्वत्वं शक्यतावच्छेदकरूपत्वेनावश्यमङ्गीकार्यमित्यर्थः । स्यादेवं तत: किमित्याह-गोत्वत्वन्वितिअवधारणार्थकस्तुशब्दः "सकलगोसमवेतत्व" मित्यस्योत्तरं योज्यः। तथाच-"गोत्वत्वं गवितराऽसमवेतत्वे सति सकलगोसमवेतत्वमेव नतु तद्व्यक्तित्वमिति तस्य गोभिन्न स्वेऽपि वर्तमानतयाऽव्यावर्तकत्वादित्यर्थः । एवं स्थिते मीमांसकमते पर्यवसितदोपमाहतथाचेति । गोव्यक्तीनाम् सकलानां गोव्यक्तीनामनन्तानामिति यावत्। शक्यता. वच्छेदकेऽनुप्रवेशात्=शक्यतावच्छेदककोटौ प्रविष्टस्य शक्यतावच्छेदकत्वाऽवश्यम्भावादित्यर्थः । तवैव गौरवम् तवैव मीमांसकस्याऽनिवार्य गौरवमित्यर्थः ।
अन प्राचीनप्रभाकारा इत्थं भावयन्ति-"तथाच-न्यायनये अनेकव्यक्ति शक्तिकल्पनागौरवस्य मीमांसकमतेऽनेकव्यक्तिषु शक्यतावच्छेदकत्वकल्पनागौरव तुल्यतया एतन्मते गुरुधर्मस्य शक्यतावच्छेदकत्वकल्पनागौरवं परमितिरिच्यते" इति ।