________________
व्यक्तिशक्तिवादादिविचारः।
३२६ शक्तिग्रहो यदि तदा व्यक्तौ शक्तिः, यदि तु गोत्वं शक्यमिति शक्तिग्रहस्तदा गोत्वप्रकारकपदार्थस्मरणं शाब्दबोधश्च न स्यात् । समानप्रकारकत्वेन शक्तिज्ञानस्य पदार्थस्मरणं शाब्दबोधं प्रति च हेतुत्वात् ॥
(प्र० टी०) ननु लक्षणया व्यक्रिप्रतीतिरास्तां, * वृत्या पदजन्यपदार्थोपस्थितिः शाब्दबोध-प्रतिहेतुरित्यपि स्वीक्रियता, जातावेव च शक्तिर्मन्यतामित्याशङ्कायामाह"नचे"ति । नहीत्यर्थः। लक्षणा-स्वारसिकलक्षणा । "अनुपपत्तिप्रतिसन्धानम्". इति । अन्वयानुपपत्तिः तात्पर्यानुपपत्तिा लक्षणावीजमित्यप्यने स्फुटीभविष्यति । " गामानय " इत्यत्र व्यक्तौ लक्षणास्वीकारे यद्यप्यन्वयानुपपत्तिरस्ति लक्षणाबीजम्, प्रानयनक्रियया सह गोस्वजातेरन्त्रयस्यानुभवविरुद्धस्वात् । तथापि " गौरस्ति " इत्यादिषु गोश्वजातेरस्तित्वाद्यन्वयस्यानुभवसिद्धत्वात् लक्षणाया नोपयोग इति विनापि लक्षणां व्यक्तिबोध इति भावः । ___ननु-ग्यको शक्तिस्वीकारे व्यक्तीनां नानात्वात् शकरप्यानन्त्यमायास्यतीत्यवोचामैव इत्याक्षेपं समाधातुमाह-"नच"ति । सकलासु व्यक्क्रिषु ईश्वरेच्छारूपाया एकस्या एव शक्त: स्वीकारानोक्तो दोष इत्यर्थः । तथाच-ईश्वरेच्छाविषयत्वस्य शक्तिरूपस्वे विषयरूपतया व्यक्तिभेदेन भिन्नस्वेऽपि भगवदिच्छारूपशक्तेरेकत्वेन व्यक्तिभेदेऽप्यभिन्नतया न गौरवावकाश इति भावः ।।
ननुगोघटादिव्यक्तयोऽननुगता ( विभिन्नाकाराः ) तासु विषयतासम्बन्धेन (d) शक्तिज्ञानकारणतायामवच्छेदकधर्माभावरूपोऽननुगमः स्यादित्याशङ्कायामाह"नचाननुगम" इति । गोव्यक्तीनामननुगततया विषयतासम्बन्धेन शक्तिज्ञानकारणतायां शक्यतावच्छेदकाभावरूपो दोषो नेत्यर्थः । तत्र हेतुमाह-"गोत्वादे". रिति-एवकार अनुगमकत्वादिस्यस्योत्तरं योज्यः । अनुगमकत्वादिति-गोसामान्यनिरूपितसाधारणधर्मस्वात् अर्थात् गोन्यक्तिविषयकशाब्दबोधम्पति गोत्वविशिष्टविषयकशक्तिज्ञानं कारणम् । घटव्यक्तिविषयकशाब्दबोधम्प्रति घटस्वविशिष्टविषयकशक्तिज्ञानं कारणमित्येवं नाननुगमरूपो दोष इति भावः।
प्रकारान्तरेण मीमांसकमते दोषमुद्भावयन् स्वमतमुपसञ्जिहीर्षुराह-"किश्चे"ति। गौः शक्या" गौर्गोपदशक्या" इत्याकारको यदि शकिग्रहोऽभिमत इति शेषः
* वृत्तिज्ञानसहकृत पदचानजन्यम्यक्तिस्मरणसम्भवेन व्यक्तः शाम्दबोधसम्भवा. दित्याशयेनाह-" वृत्त्या "-इति ।
(d) शनिशानकारणतायामिति-कारणता च किनिधर्मावछिन्नाऽवश्यमेव बाच्या निरवच्छिन्नकारणताया असम्भवादिति भावः ।
६ मीमांसकदूषिता व्यक्तिशतिं साधयित्वा तन्मतसिद्धजातिशक्तिवादमपि खण्डयितुं विकल्पयतीत्यर्थः।