________________
३२८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्रावल्याः
[शब्दखण्डे
णम्" । नचोक्काकारबोधे व्यक्किशक्तिज्ञानस्यैव कारणत्वमुपगम्य व्यक्तावेव शक्तिरङ्गीक्रियतामिति वाच्यम् । तथासति उनानन्त्यव्यभिचारदोषापत्तरिति मीमांसकस्याशयः ।
"पदजन्यपदार्थोपस्थितिः शाब्दबोधम्प्रति हेतु" रित्यस्ति नियमः । तेन व्यक्ती शक्ति विना व्यक्तिभानस्य नैव निर्वाहोऽतस्तत्रापि शक्तिः स्वीकार्येति नैयायिकस्याशयः ।
व्यक्तिशक्तिवादिनोऽभिप्रायस्तु इत्थं बोध्य:-यदि भट्टमते जातिरेव शक्या (वाच्या ) तदा गोपदात् गोव्यक्तेर्भानं न स्यात् । नच जात्या व्यक्तराक्षपसम्भवः उभयोः सामानाधिकरण्याभावेन व्याप्तेरभावात्* तादाम्यसम्बन्धेन व्याप्तेरभ्युपगमेऽपि व्यक्तौ विभक्त्यर्थसङ्ख्याकर्मत्वादेरन्वयो न स्याद् अपदार्थत्वात् । नह्यपदार्थेन सङ्ख्यादेरन्वयो भवितुमर्हति सुविभक्तीनां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेः । प्रकृतितात्पर्यविषये तदन्वयव्युत्पत्तौ लक्षणायुच्छेदप्रसङ्गोऽनिवार्यः स्यात् । किञ्चशक्तिग्राहकानयनादिव्यवहारस्य व्यक्तावेव सम्भवात् जातिशक्तिपक्षे सुतरां तदनुपपत्तिरिति जातिशक्तिवादिभमतमसम्मतम् । गुरुमते तु व्यक्ति विना जातिग्रहाभावाद् व्यक्तेरपि शक्तिग्रहविषयता स्वीकार्या । अन्यथा जातिमात्रविषयत्वस्य कारणतावच्छेदकत्वे विनिगमनाविरहः स्यात् तद्विषयत्वस्य समानत्वादेव । न्यायादिमतेऽपि जात्यादेः शक्तिविषयत्वे गौरवामात व्यक्तिपक्षाङ्गाकार एव युक्तिसहो भाति । ग्रन्थगौरवभयाखाधिकं लिखितम् । वाक्यपदीयादिषु विस्तरो द्रष्टव्यः
(मु०) न च व्यक्तौ लक्षणा, अनुपपत्तिप्रतिसन्धान विनापि व्याक्तिबोधात् । नच व्याक्तशक्तावानन्त्यं, सकलव्यक्तावेकस्या एव शक्तः स्वी. कारात् । नचाननुगमः, गोत्वादेरेवानुगमकत्वात् । किंच गौः शक्नेति
® तादात्म्यसम्बन्धेनेति-“यत्र समवायेन जातिस्तत्र तादात्म्येन व्यकिः” इति न्याप्तिस्वीकारेऽपि “गामानय" इत्यादी व्यक्ती द्वितीयार्थकर्मत्वादेरन्वयानुपपत्तिरित्युक्तम् । अत्रायं भाव:-"पदार्थः पदार्थेनान्वेति नतु पदार्थेकदेशेन" इति व्युत्पत्तिविरोधो मीमांसकमते, जातेश्चैतन्मते पदार्थत्वाद् व्यक्तेस्तु पदार्थैकदेशत्वात् । यदि चेयं व्युत्पत्तिरेव न स्वीक्रियेत तदा नित्यत्वस्य घटत्वेऽन्वयमपेक्ष्य "नित्यो घट" इति स्वारसिकप्रयोगः स्यात् । ननु-पदार्थंकदेशावयस्वीकारे चैत्रपुत्रेऽपि "चैत्रस्य गुरु" दिति प्रयोगः स्यात् चत्रपुत्रस्यापि जन्यजनकभावसम्बन्धेन चैत्रसम्बन्धित्वात्स्वशिष्यस्य च गुरुत्वाच्च "चैत्रसम्बधिगुरु" रिति बोधसम्भवात. अतोऽत्र पदार्थैकदेशेऽन्वयः स्वीकर्तव्यः । तथा च-चैत्रपुत्रे चैत्रनिरूपितगुरुत्वाभावान्न "चैत्रस्य गुरु" दिति चैत्रपुत्रापेक्षया प्रयोगः ।
___ अत्र षष्ठयों निरूपितत्वम् । “चैत्रनिरूपितं यद्गुरुत्वं तदान्" इति चैत्रनिरूपितबोधाभावादिति चेन्न तादृशव्युत्पत्तिसङ्कोचस्वीकारात् । व्युत्पत्तिसङ्कोचस्त्वित्थम् - "ससम्बन्धिकस्थलातिरिक्तस्थले पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन" इति व्युत्पत्तिस्वरूपं स्वीकरणीयमिति भाव इति दण्डिस्वामिविश्वेश्वराश्रमाः।