________________
ध्यनिशक्तिवादादिविचारः। अयमाशयः-*भ्यक्रिशक्रिवादी एवं प्रष्टव्यः किं भोः ! यस्यां कस्याञ्चिाको शक्तिः ? सर्वासु वा ? । आये व्यभिचारो दोषः । अर्थात्-यस्यां व्यक्तौ शक्तिर्न गृहीता तस्या अपि तेनैव पदेन यदि शाब्दबोधः, तदा विनापि शक्निग्रहं ज्ञाब्दबोधे सति कुतो न व्यभिचारः । तथाच-घटपदारपटरूपस्याप्यर्थस्य भानप्रसङ्गः शक्विज्ञानाभावसाम्यात् द्वितीयश्चेद् ? अानन्स्यं दोषः । प्रतिव्यक्कि शक्रिभेदात् शक्रयानन्त्यमित्यर्थः । इत्थं
जातिविशिष्टव्यक्तौ शक्तिस्वीकारे जातावपि शक्तिग्रह आवश्यकः । तथा च "नागृहीतविशेषणा बुद्धि विशिष्ट उपजायत" इति न्यायेन ज.तावेव शक्तिया॑य्या खाघवात् । तदुक्तं "विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषण" इति । अथ मीमांसकमते व्यक्तिभानं न स्यादिति चेन्न "गामानय” इत्यादौ श्रानयनकर्मताया अन्वयोपपत्त्यर्थ व्यक्तिभानमापत्तिप्रमाणेन भवति यतः। तथाहि-"उपपादकज्ञान हेतुभूतमुपाद्यज्ञानमापत्तिः प्रमाणम्" । "उपपाद्यज्ञानेनोपपादककल्पनमापत्तिः प्रमा"। यथा-"पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यत्र रात्रिभोजनमन्तरा पनित्वस्यासम्भवात् पीनत्वज्ञानमुपपाद्यज्ञानं, तदेव करणम् । रात्रिभोजमज्ञानमुपपादकज्ञानं तदेव फलम् । अर्थात्-उक्ते दृष्टे श्रुते वा दिवा अभुञानस्य पनित्वमुपपाद्यमनुपपन्न सत् स्वस्योपपादकं रात्रिभोजनं कल्पयति । एवम्प्रकृतेऽपि व्यक्तिमन्तरा केवलाया जातेरानयनासम्भवात् जातिशक्तिज्ञानं करणं सदुपपाद्य, तत्फलं व्यक्तिज्ञानमुपपाएकमित्यनुसन्धेयम् । एतदभिप्रायेणैवाग्रिमो ग्रन्थोऽवतारित: “केचिदि"त्यन्तः ।
व्यक्ति विनेति-व्यक्तिमविषयीकृत्येति अर्थात् व्यक्ति विना जातिभानस्यासम्भवात् जातिभासकसामग्रया एव व्यक्तेरपि भानमित्याकिं व्यक्तिभानं स्वतःस्विद्धम् । तत्र व्यक्तिभानार्थ शक्तेरपेक्षानास्तीति सकलमीमांसकसंवादः । तदेतन्मीमांसकमतं जातिशाक्तवाद खण्डयति "तन्न" इत्यादिना । 'शक्ति विनेति। ध्यक्तौ शक्त्यस्वीकारे । यदि व्यक्तौ पदस्य शक्तिर्न स्यात्तदेत्यर्थः । व्यक्तिभानानुपपत्तेः- व्यक्तेः शाब्दबोधविषयत्वानुरपत्तेः वृत्तिज्ञानसहकृतपदज्ञानजन्यपदार्थोपस्थितेः शाग्दबोधहेतुत्वादित्यर्थः । व्यक्तिप्रतीतेरसम्भव एव स्यादिति भावः।
अंत्र-"व्यक्तिविशेष्यकजातिप्रकारकशाब्दबोधे जातिविषयकशक्निज्ञानं कार
* यथा-लक्ष्यतावच्छेदके लक्षणां विनैव तत्प्रकारकबोधसम्भवः, तथा शक्यतापच्छदके शक्ति विनैव तत्प्रकारकबोधसम्भवाद्वथक्तावेवशक्तिरिति व्यक्तिशक्तिवादिनो हृदयम्।
+ अगृहीतम्-अविषयीकृतं विशेषणे ययेति व्युत्पत्त्या विशेषणीऽविषयिणी बुद्धिर्विशिष्टेषु नोपजायते, विशिष्टविषयिणी न भवतीत्यर्थः ।
अभिधा-शक्तिः विशेष्यं = धर्मिणं न गच्छेत् = बोधयितुं समर्थो न भवेत् कुतः विशेषणे = जातिरूपे क्षीणशक्तिः = कुण्ठितशक्तिरित्यर्थः । तथा च-अभिधारूपशक्तविशेषणबोधनमात्रसमर्थत्वेन धर्मिबोधने सामर्थ्याभावात् तत्र = (व्यक्ती) शक्तिस्वीकारो निष्प्रयोजन. मिति तेषामभिप्रायः इति प्राचीना प्रभा।