________________
३२६
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[शब्दखण्डे
इत्यत्र राजपदार्थस्य स्वत्वसम्बन्धेन पुरुषे, एवं "भूतलं घटः” इत्यत्राधेयतासम्बन्धेन भूतलपदार्थस्य घटे, एवं “तण्डुलः पचति" इत्यत्र कर्मतासम्बन्धेन पाकपदार्थस्य तण्डुले एवं " चैत्रः पच्यते " इत्यादौ कर्तृत्वसम्बन्धेन पाकपदार्थस्य चैत्रे यथार्थभेदान्वबोधवारणाय निपातातिरिक्कयोः क्रियाप्रातिपदिकार्थयोः साक्षानेदान्वयस्याव्युत्पन्नत्वमिति नियमोऽनुसन्धेयः। विभक्कयर्थमन्तरीकृत्य तयोरप्यन्वयबोधात्साक्षादिति निपातातिरिक्तत्वादि विशेषणादित्यर्थः । “भूतले न घट:" "घटो न पट" इत्यादौ घटादेनजर्थाभावेन " मुखं चन्द्र " इत्यादौ मुखचन्दादीनामिवार्थसादृश्यादिना " न कलज भक्षयेद" इत्यादौ न पस्थाप्येन बलवदनिष्टाननुबन्धित्वविशिष्टेष्टसाधनस्वादिरूपविध्यर्थत्वाभावेन धात्वर्थभक्षणत्वादेरनुयोगिताऽन्वयेऽपि न क्षति: । “नञ् पदं विना यत्र धर्मिणि यस्य विशेषणतया भानं यादृशसमभिव्याहाराद्भवति तादृशसमभिव्याहारस्थले तत्र धर्मिणि तदभावः प्रतीयते" इति नियमः । एवञ्च नअर्थाभावेनाऽनुयोगितया घटाद्यन्वयबोधोपपत्तये निपातातिरिक्रत्वाविशेषणमावश्यकम् । एवञ्च - "न पचति चैत्रः" "चैत्रस्य न धनम्" इत्यादौ पाककृतिचैत्रस्वत्वाद्यभावस्य नजर्थस्य चैत्रधनादान्वय. बोधोपपत्तये च तदाऽवश्यकम् ।
"राजपुरुष' इत्यादिसमासस्थले तु पुरुषादिपदार्थेन समं राजादिपदार्थस्य न भेदान्वयबोध: किन्तु तेन समं विभक्कयन्तार्थविशिष्टलाक्षणिकराजादिपदोपस्थाप्य. राजसम्बन्धादेरभेदान्वयबोध एवेति न दोषः । एवं “मुखञ्चन्द्रः" इत्यादिरूपकस्थलेऽपि चन्द्रादिपदस्प चन्द्रादिसदृशलक्षणया चन्द्रादिसदृशाऽभेदान्वयबोध एव नतु सादृश्यादि. सम्बन्धेन चन्द्रादेर्मुखादावन्वय इति न तत्र व्यभिचार इत्याधिकं व्युत्पत्तिवादादिषु विलोक्यम् ।
(मु०) तत्र जातावेव शक्तिनतु व्यक्ती, व्यभिचारादानन्त्याच्च । व्यक्ति विना च जातिभानस्यासम्भवाद्वयक्तेरपि भानमिति केचित् तन्न। शक्ति विना व्यक्तिभानानुपपत्तेः।
( प्र० टी० ) प्रसङ्गसङ्गतेः परमतनिराकरणपूर्वकं स्वमते जात्यादिविशिष्ट शक्ति व्यवस्थापयितुमादौ मीमांसकमतमाह-"तत्र' इति । एवं शनिग्रहे स्थिते सतीत्यर्थः । जातावेव-घटपटादिपदानां घटत्वपटत्वादिजातादेव शनिः अर्थबोधनसामर्थ्यम् , ईश्वरेच्छारूपः सङ्केतो वेत्यन्यदेतत् । नतु-व्यक्तौ कम्बुग्रीवादिमव्यक्ती, प्रातानवितानात्मकव्यक्ती वा । नतु--नैवेत्यर्थः । तत्र दोषमाह-व्यभिचारादिति यत्किञ्चिद्धर्मिणि शक्तिस्वीकार घटादिपदात् शक्तिमत्त्वेनाऽनिर्णीतम्यक्नेरपि शाब्दबोधोदयेन तत्र शकिज्ञानकारणतायां व्यभिचारादित्यर्थः । अानन्त्याच्च-व्यक्निभेदेन शकि. भेदे शक्रयानन्त्यादित्यर्थः ।