________________
वाक्यार्थबोधे नैयायिकमतम् ।
३२५
नुसन्धीयमानविभकिसमवेतप्रथमात्वादिधर्मशून्याविभनयन्यहितपूर्वत्वेनानुसन्धीयमानत्वमिति यावत् । अभदस्तादात्म्यम । तच्च-स्वसमानाधिकरण्यस्वप्रतियोगिवृत्तित्वोभयसम्बन्धेन भेदविशिष्टं यत् तदन्यत्वम् ।
किच क्रियाविशेषणस्थलेऽप्यभेदान्वयबोधात् क्रियापदद्वितीयान्तपदयोः सममिहारोऽप्यभेदान्वयबोधप्रयोजकः कचिद्वाच्यः। क्रियाविशेषणस्थले द्वितीयातिरिकविभक्तिर्नोत्पद्यते " क्रियाविशेषणानां कर्मत्व " मित्युनुशासनात् । क्रियापदेनात्र सार्थकप्रत्ययान्तधातूपस्थापितोऽर्थो विवक्षितो नतु सामान्यतो धात्वर्थः । तथासति भावकृतां प्रयोगसाधुत्वमात्रार्थकस्वात् “ स्तोकः पाक: " इत्यादावपि धात्वर्थमात्रस्यैव प्राधान्यात् तद्विशेषणत्वेन स्तोकपदोत्तरं द्वितीया स्यात् ।
___ एवं “ घटो घट" इत्यादावभेदान्वयबोधवारणाय अभेदान्वयबोधे विरूपोपस्थितिरपि कारणं वक्तव्यम् । * विशेष्यतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकधर्मावच्छिन्न प्रतियोगिताकभेदप्रतियोगितावच्छेदकविशेषणतावच्छेदकतापर्याप्त्यनुयोगितावच्छेदकत्वमेव विरुपोपस्थितिरित्यायन्यत्र विस्तरः ।
भेदान्वयबोधश्च प्रातिपदिकार्थधात्वर्थयोः प्रत्ययार्थेन कचिनिपातार्थे च सममेव जायते नस्वन्येन । सत्यपि पदार्थोपस्थितियोग्यताज्ञानादिकारणकलापे "राजा पुरुषः" साजात्यभिष्टं किन्तु प्रथमात्वादिधर्मेण । तथाच सुजसोरुभयोरपि प्रथमात्वेन साजात्यमस्त्यवेति रीत्या वेदप्रमाणपदयोः समानविभक्तिकत्वं, तेनाभेदान्वयबोधे न कोपि दोष इत्यर्थः । स्व. प्रकृतिकस्वमिति-'स्व' घटादिपदं तत्प्रतिकत्वं विभक्तौ । अर्थात् 'वं घटादिपदं तद. व्यवहितोत्तरत्वेन प्रतिसन्धीयमानत्वं स्मृतिविषयत्वमेव । तथाच “दधि सुन्दर " मित्यत्र दधिपदोत्तरं विभतेरभावेऽपि व्यासस्थले लुप्तविभक्त: स्मरणस्वीकारात् विभक्तौ दक्षिपदाव्यवहितोत्तरवेन प्रतिसन्धीयमानत्वमस्त्यवेति-आह 'तेन' इत्यादि । अभेदस्तादात्म्यमितिइदन्न प्रकारतावादिमतेनोच्यते । तस्यायमाशयः-विशेषेणविभतेरभेद एवार्थः । तादात्म्य. मेवाभेदः । तथाच " नीलोपट " इत्यत्र घटे नीलतादात्म्यं भासते "नीलतादात्म्यवान् घट" इति घोधः । तादात्म्यस्य स्वरूपमाह-"तच" इति । अस्य लापनप्रकारोऽयमस्ति-" स्वं" नील. घटव्यक्तिभेदः तत्समानाधिकरण्यं द्रश्यत्वे, अपच “स्वं" नीलघटव्यक्तिमेदः तत्प्रतियोगिनी, नीलघटव्यक्तिः तद्वृत्तित्वमपि द्रव्यत्वे इत्युभयसम्बन्धेन भेदविशिष्टं द्रव्यत्वमेव, तदन्यत्वं तद्व्यक्तित्वे अर्थात् तद्न्नीलघटम्पक्तिवृत्तितद्व्यक्तित्वे । अनया रीत्या एकमात्र तिधर्म एव विशेषणविमरर्थः ।
* विशेष्यतावच्छेदकतेति-इदन्तु . " तद्धर्मावच्छिन्नाभेदसंसर्गावच्छिन. प्रकारतानिरूपितधर्मितावच्छेदकसम्बन्धेन शाब्दबुद्धित्वावच्छिन्नम्प्रति तद्धर्मभेदः कारणम् " इति गदाधरभट्टाचार्योंक्तस्यैव परिष्करणमिति में प्रतिभाति इति श्रीस्वामिदण्डिविश्वश्वराश्रमाः।