________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ शब्दखण्डे
वाचकपदं नास्ति, किन्तु विशेष्यवाचकं यत्प्रमाणपदम्, तत्समानवचनमेव विशेषणवाचकं शब्दान्तं पदमस्ति तस्मादेवंविधस्थलेऽभेदान्वयबोधानुपपत्तिरेव । तस्मात् - "विशेष्यवाचकपदोत्तरविभतितात्पर्य सङ्ख्या विरुद्ध सङ्ख्याया श्रविवक्षितस्थल एव समानवचनत्वं तन्त्रं नत्वन्यत्र " इति साधारणो नियमः । तथाच - " वेदाः प्रमाण मित्यत्र वेदानां बहुत्वेऽपि तंत्र कशाब्दप्रमितेः करणत्वस्य विद्यमानत्वात् प्रमाणपदोत्तरं बहुत्वविरुद्ध मेकत्वं विवक्षितमेव । तत्रायोग्यतया प्रकृत्यर्थे ( वेदात्मके ) एकत्वान्वया-सम्भवेऽपि एकदेशान्वयमङ्गीकृत्य प्रकृत्यर्थतावच्छेदके प्रमितिकरणत्वेऽन्वयः ।
३२४
""
एवं " त्रयः समुदिता हेतुः " इत्यत्र शक्तयादिप्रत्येकात्काव्योत्पत्तिवारणाय तृणारणिमणिन्यायसिद्धकारणतां विहाय समुदायत्वेन कारणत्वस्य वाच्यतया समुदायस्व - " स्य च शक्रयादित्रिष्वप्येकस्यैव सत्वाद् हेतुपदस्यैकवचनान्तता |
एवं " पितरो देवता " इत्यत्र पितृपितामहादीनामेकरूपेण यागोद्देश्यत्वविरहात् पितृवतामहत्वादिभिरुपाधिभिः पृथक् पृथगेव यागोद्देश्यत्वरूपदेवतात्वम्. उद्देश्यतावच्छेदकभेदेनोद्देश्यभेदात् । तथाच देवतानां देवतात्वानाञ्च बहुत्वात् तत्र योग्यतया एकत्वान्वयासम्भवात् देवतापदस्य बहुवचनान्ततेति दिक् ।
+ स्वसमानविभक्तिकत्वन्तु - स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् । साजात्यन्तु प्रकृते विभक्तिविभाजकप्रथमात्वादिना नतु समानानुपूर्वीकत्वेन सामान्यतो धर्ममात्रेण वा तेन " वेदाः प्रमाण " मित्यत्र समानानुपूर्वीकत्वाभावेऽपि नाव्याप्तिः । नवा " नीलस्य घट " इत्यादौ सुप्त्वादिना सजातीयविभक्तिकसवेऽपि शाब्दबोधापत्तिः । अत्र स्वप्रकृतिकत्वं स्वान्यवहितोत्तरत्वेन ज्ञायमानत्वं = प्रतिसन्धीमानत्वम् तु स्वाध्यवहितोत्तरवृत्तित्वम् । एवं पजातीयविभक्तिकत्वमपि तादृशविभक्तयव्यवहितपूर्वश्वेन ज्ञायमानत्वं नतु तादृशविभक्तः यव्यवहितपूर्व वृत्तित्वम् । तेन ' दधिसुन्दरम् ' ' इदं दधि ' इत्यादौ नान्वयानुपपत्तिः । अर्थात् " दधि सुन्दरम् " इत्यादौ विशेष्यानन्तरम्, “ इदं दधि " इत्यादौ विशेषणानन्तरं विभक्तेरसत्वेऽपि विभक्तेरनुसन्धानाच्छाब्दबोधः । " नीलं घटमानय " इत्यादौ नीलाद्युत्तर विभक्रेस्तु नैरर्थक्यमेव, अभे दो वार्थः । संसर्गमर्यादयाऽभेद भानन्तु समास एव । श्रस्मिन्प समासग्यासयोर्न पर्यायता, व्यासेऽभेदस्य प्रकारत्वात् समासे संसर्गत्वाच्च ।
"
परन्तु " धान्येन धनवान् ” इत्यादावभेदान्वयबोधार्थं स्वान्यवहितोत्तरत्वेना
* उपाधिभिः = धर्मैः ।
+
(6
অঙ্গ स्व " पदेन अनुयोगिवाचकपदग्रहणम् । यथा प्रकृते वेदपदम । तत्प्रकृतिर्विभक्तिः, तत्सजातीयविभक्तिकत्वं प्रमाणपदेऽप्यस्ति, तस्य प्रथमान्तत्वाद, नात्राऽभेदान्वयबोधानुपपत्तिरिति भावः । विवक्षितं साजात्यमाह - साजात्यन्त्विति । नपत्रानुपूर्वीलक्षणं