________________
" वाक्यार्थबोधे नैयायिकमतम् ।
कृतित्वस्य लाघवेन शक्यतावच्छेदकत्वात् । शक्रतावच्छेदकञ्च लकारसाधरण लत्वमेव । चैत्रो गन्ता, गतो ग्राम, इत्यादौ तु सामानाधिकरण्यानुरोधेन यथायथं कर्तृकर्मणी कृवाच्ये ।
नन-“ लटः शतृशानचावप्रथमासमानाधिकरणे" ( ३।२।१२४) इत्यनेन शतृशानचोरादेशत्वात् कर्तरि शक्रिः भादेशिशक्कया निर्वाह एवादेशशक्यकल्पनादिति चेद् ? "चैत्रः पचन्" इत्यादौ सामानाधिकरण्यानुरोधादादोशशक्रयाऽनिर्वाहादादेशेऽपि शकिः।
इयंस्तु विशेषः-लत्वेन यत्ने शक्तिः प्रात्मनेपदत्वेन फले । “मैत्रेण गम्यते प्राम'' इत्यादौ "मैत्रवृत्तिकृतिजन्यगमनजन्यफलशाली ग्राम" इत्यन्वयबोधात् । कृतिश्रात्र तृतीयार्थः. जन्यत्वं संसर्गः, मैत्रः कृतौ विशेषणम्, सा च गमने, तच्च फले, सच्च ग्रामे। "ग्रामं गच्छति मैत्र" इत्यत्र तु "ग्रामवृत्तिफलजनकगमनानुकूलकृतिमान्मत्र" इति बोधः । फलञ्च द्वितीयार्थः, जनकत्वं संसर्गः, ग्रामश्चात्र फले विशेषणम्, तद् गमने, तच्च कृती, सा मैत्रे इति विशेष्यविशेषणभावभेदेनैव कर्मकस्थलयोबोधः । तोवन्तः पदार्थास्तु उभयत्रैव समानाः। "मैत्रेण ज्ञायते इष्यते क्रियते घट" इत्यादी तु वृत्तिस्तृतीयायाः विषयतात्वाख्यातस्यार्थः ज्ञानेच्छाकृतीनां सविषयत्वनियमात् "मैत्रवृत्तिज्ञानविषयो घट" इति बोधः । “घटानाति मैत्र" इत्यादौ तु विषयता द्वितीयायाः, आश्रयस्वञ्चाख्यातस्यार्थः । “घटविषयकज्ञानाश्रयो मैत्र" इति बोधः । बहु शास्त्रार्थस्तु सटीक लघुमञ्जूषादौ शब्दशक्तिप्रकाशिकार्दिषु चावलोकनीयः ।
इदन्तु बोध्यम्-शाब्दबोधश्च द्विविधो भवति । भेदान्वयोऽभेदान्वयश्च । अभेदान्वयस्तु स्वसमानविभक्तिकेन स्वाम्यवहितोत्तरवर्त्तिना च पदेनोपस्थापितस्यैव संसर्गमर्यादया भासते, नतु विरुद्धविभाक्रमपदार्थस्य "देवदत्तस्य धन" मित्यादावभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वात् । एवं “कुण्डलिनी देवदत्त" इत्याचनिष्टापत्तिवारणाय अभेदान्वयबोधे “समानवचनत्व' मपि निवेश्यम् । परन्तु-"विंशत्याधाः सदैकत्वे सर्वाः सङ्ख्ययेसङ्ख्ययो" रित्याद्यनुशासनात् "शतं ब्राह्मणाः" इत्याधुपपादनसम्भवेऽपि "वेदाः प्रमाणम्" इत्याद्याः कथं प्रयोगाः सङ्गच्छेरन् । यदि तु समानलिङ्गकस्थल एव समानवचनत्वस्वीकारः तदा "वेदाः प्रमाण" मित्यादीनां साधुत्वोपपादनेऽपि "त्रयः समुदिता हेतु" रिति काव्यप्रकाशोक्तेरसङ्गतिर्दुर्वारैव ।
अथ असमानलिङ्गकस्थल एव विशेष्यवाचकपदाऽसमानवचनविशेषणवाचकपदं साधु नतु समानलिङ्गकस्थले तदा “प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि (न्या०) "पितरो देवता " इत्यादौ समानलिङ्गकत्वाभावेऽपि विशेष्यवाचकपदासमानविशेषण
ॐ स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववत्तिंना स्वाव्यवहितोत्तरवर्तिना च नामपदेनोपस्थापितस्यैव गौष्टिरित्यादौ, उत्तरत्तिनापि कचित् ।