________________
३२२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[शब्दखण्डे
वाक्यार्थः। तत्र "मृगो धावति' इत्यत्र विशेष्यभूतधावनरूपार्थवाचकस्य 'धावती'त्यस्य प्रातिपदिकत्वाभावान्न द्वितीया, कर्मत्वन्तु संसर्गमर्यादया भासते । एवं 'पचति भवति' इत्यस्य 'पचिक्रियाकर्तृका सत्तेति बोधः । “पच्यादयः क्रिया भवति क्रियायाः कलयों भवन्ती"ति भूवादिसूत्रास्थभाष्यात् । उनञ्च हरिणा
सुबन्तं हि यथानेकं तिङन्तस्य विशेषणम् ।
तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम् ॥ इति।
तार्किकमते तु-"अन्यदेशसंयोगानुकूलधावनानुकूलकृतिमन्मृगकर्मकं प्रेरणा विषर्याभूतं यद्दर्शनं, तदनुकूलकृतिमांस्त्व' मिति बोधः । तत्र विशेष्यभूतार्थवाचकमृगशब्दस्य प्रातिपदिकत्वात् दृशिक्रियाकर्मत्वाच्च द्वितीयापत्तौ “धावन्तं मृगं पश्ये"तिवत् "पश्य मृगन्धावति' इत्यापत्तिः स्यात् , अप्रथमासमानाधिकरणे शतृशानचोर्नित्यत्वादेवं विधप्रयोगविलयापत्तिश्च स्यादित्याद्यन्यत्र विस्तरः ।
इति धात्वर्थमुख्यविशष्यकवादिवैयाकरणमतम् ।
मीमांसकास्तु-श्राख्यातार्थमुख्यविशेष्यकं शाब्दबोधं मन्यन्ते-तथाच पचती'त्यस्य पार्क करोति । पचत्योदन' मित्यस्य पाकेनोदनं करोती'ति विवरणदर्शनात धात्वर्थकर्मत्वेन करणत्वेन वा श्राख्यातार्थकृतावान्वयो युक्त इति 'पचत्योदन देवदत्त' इत्यस्य “पाककरणका प्रोदनभाव्यिका देवदत्तकृति" रित बोधो जायते । तत्र च धात्वर्थस्य कृति प्रति करणत्वं न साक्षात्साधनत्वरूपम्, किन्तु कृतौ भाव्यत्वेनान्वितस्वर्गादिसाधनत्वरूपम् । दृष्टं हि लोके तत्फलसाधने तदसाधनेऽपि साधनशब्दप्रयोगः । यथा-"कुठारेण छिनत्ति" इत्यादौ छेदनं प्रति कुठार: करणमिति । छेदनशब्दस्य हि द्वैधीभावानुकूलव्यापारोऽर्थः, नहि कुठारो व्यापार प्रति करणं, किन्तु तत्फलद्वैधीभावं प्रति । तत्रोद्यमननिपतनादीनामवोतकर्त्तव्यतात्वेनान्वयः, अत्रानयागादीनामितिकर्तव्यतात्वेनान्वयः । तथाच "ज्योतिष्टोमेन स्वर्गकामो यजेत" इति वाक्यस्य "ज्योतिष्टोमाभिनयागकरणिका स्वर्गभाव्यिका दक्षिणीयाद्यङ्गयागेतिकर्तव्यताका कृति"रित तदनुकूलो ब्यापार" इति वा केषाञ्चिन्मते इति बोधप्रकारं कल्पयन्ति ।
इत्याख्यातार्थमुख्यविशेष्यकशाब्दबोधवादिमीमांसकमतम् ।
नैयायिकास्तु-यद्यपि लडादिदशलकाराणां कर्ता कालः सङ्ख्या चेतित्रयमर्थः, तथापि गौरवभयाद् यत्न * एव लकारसामान्यस्य शक्तिः व्यापारताद्यपेक्षया
* कृतावित्यर्थः।