________________
वाक्यार्थबोधे मतभेदः ।
अनुकूलत्वं संसर्गमर्यादया भासते । लटो वर्तमानत्वमर्थः, श्राख्यातस्य कृतिरर्थ:. तत्सम्बन्धः संसर्गमर्यादयैत्र । एवञ्च पाकस्याख्यातार्थकृती, तस्याश्चैत्रे प्रथमान्तार्थे अन्वयः । एवं च-"तण्डुलकर्मकपाकानुकूल ( व्यापारानुकूल-) वर्तमानकृतिमांश्चैत्र" इति वाक्यार्थः । “रथोगच्छती" त्यादौ रथस्याचेतनत्वाद्यनशून्यतया व्यापारे प्राश्रयत्वे वा अख्यातस्य लक्षणेत्याहुः तदेतत्सर्वमापातरमणीयमाभाति । तथाहि-कृती शनिस्वीकारे युष्मदस्मदोर्लकारेण सह सामानाधिकरण्याभावान्मध्यमोत्तमपुरुषव्यवस्था न स्थात् । शतृशानजादीनामपि तिबादिवल्लादेशाविशेषेण" तेभ्योऽपि कृतिमात्रस्य बोधापत्तिश्च । यदि तु “पचन्तं देवदत्तं पश्य" इत्यर्थाभ्युपगमे आश्रयायिभावेन कर्मणि कृतेरन्वयात् शतृशानजादिस्थलेपि कृतौ शक्तिस्वीकारे इष्टापत्तिरेवास्माकमिति ब्रूषे, तदा तव मते "नामार्थयोरभेदान्वयो व्युत्पन्न" इति व्युत्पत्तिविरोधः कथं वार्येत । न च फलमुखगौरवस्यादोषत्वात् शत्रादीनां कर्तरि शक्तिः, तिबादीनान्तु कृतौ शकिरस्तु इति वाच्यम् स्वसिद्धान्तहान्यापत्तेः । स्थान्येव ( लकारो) वाचको लाघवात् नादेशाः (तिबाद्याः ) तेषां बहुत्वेन गौरवात् । किन्तु तिबादीनां शत्रादीनां च स्थानिस्मारकतया लिपिस्थानीयत्वं, बोधकस्तु लकार एव। सच शनाद्यन्ते कतरि शक्रश्चेत् तर्हि तिवाद्यन्तेऽपि कर्तरि शकौ कोऽपराधः, एकस्यैव लकारस्य कर्तरि कृतौ च शक्तिस्वीकारे “अन्याय्यञ्चानेकार्थत्व" मिति न्यायविरोधस्तव दुरुद्धरः । ।
__ननु-"लः कर्मणि" इति सूत्रे कर्तृकर्मपदे भावप्रधाननिर्देशमङ्गीकृत्य कर्तृत्वं कृतिः कर्मस्वं फलामस्यथं त्वा कृता फले च सूत्रस्य शक्तिस्वरस: तेन कर्मप्रत्ययान्ते "देवदत्तेन तण्डुलः पच्यत" इत्यादी "देवदत्तनिष्ठकृतिजन्यव्यापारजन्यविक्नित्तिरूपफला. श्रयस्तण्डुल" इति बोधः। 'कर्तरि कृत्'-इति सूत्रे तु कर्तरीतिपदस्य धर्मिप्रधानत्वात् कृत्याश्रये (कर्तरि) एव शत्रादीनां शक्विरित वक्तुं युज्यते इति चेद् ? अत्र ब्रूमः-यदेव "कर्त्तरि" इति पदमुक्कसूत्रे तस्यैव 'लः कर्मणि'-इति सूत्रेऽनुवृत्तिश्चकारेण कृतेति तस्य धर्मिप्रधानन्वमुभयत्रैव तुल्यम्।
किच-कृतेर्लकारवाच्यत्वेन “रथो गच्छति" इत्यादावाश्रये लक्षणास्वीकारण तवैव गौरवम् । अभिहितानभिहितत्वव्यवस्थोच्छेदापत्तिश्च । ननु-"अनभिहिते” इति सूत्रे अनभिहितसङ्ख्याके इत्यर्थकरणे सा व्यवस्था साध्वीति चेद् ? भ्रान्तोसि, नहि कृत्तद्धितसमासैः क्वचिदपि सङ्ख्याभिधानं प्रसिद्धम् । वस्तुतस्तु यत्रोऽपि ब्यापारसामान्यान्तःपाती धातुलभ्य एव । अनन्यलभ्यस्यैव शब्दार्थत्वादिति कृतौ शक्तिकल्पना आशामोदकचर्वणासमैव नैयायिकानाम् । ____ यस्तु-प्रथमान्तार्थमुख्यविशेष्यकबोधे समादरो नैयायिकानां तत्रोच्यते शाब्दिकमते"-पश्य मृगो धावति" इत्यादौ मृगकर्तृकं धावनं हशिक्रियायां कर्म, प्रधानन्तु हाशक्रियैव । तथाच-"मृगकर्तृकधावनकर्मकं प्रेरणाविषयीभूतं त्वत्कर्तृकं दर्शन" मिति