________________
३२०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ अत्रावयवाश्रयं पौर्वापर्य समुदाश्रयमेकत्वमित्याद्यन्यतो ज्ञेयम् ।
फलव्यधिकरणब्यापारवाचकत्वं सकर्मकत्वम् । फल पमानाधिकरणब्यापारवाचकत्वमकर्मकत्वम् । वस्तुतस्तु-शब्दशास्त्रीयकर्मसंज्ञकार्यान्वय्यर्थकत्वं सकर्मकत्वम् । तदनन्वय्यर्थकत्वमकर्मकत्वमिति ज्ञेयम् । तेन "अध्यासिता भूमय" इत्यकर्मणोप्यस् धातोः सकर्मकरवे न दोषः । तत्र "अधिशीस्थासामाधारः कर्म' (पाणि ।। ४ । ४६ । ) इत्यनुशासनाद् "भूमय' इत्याधारस्य कर्मत्वम् । "ज्ञा" धातोश्च विषय. तया ज्ञानं फलम्, प्रात्ममनःसंयोगो व्यापारः । अतएव "मनो जानाती" त्याद्यपि साधु । आत्मा चात्रान्तःकरणमेव, मनश्च तद्वृत्तिविशेष: । "श्रात्मा श्रात्मानं जानाती" त्यादिस्थले तु अन्तःकरणावच्छिन्नः कर्ता, शरीरावच्छिन्नश्च कर्मेति-कर्मवकर्मणा तुल्यक्रियः (पाणि० ३ । १८७ । ) इति सूत्रभाष्ये स्पष्टम् ।।
सकर्मकोऽपि धातुर्द्विविधः । कर्तस्थभावकः कर्मस्थभावकश्च । यत्र-कर्तकर्मसाधारणरूपं फलं शब्देन प्रतिपाद्यते स कर्तृस्थभावकः । यथा-घटं पश्यति, ग्राम गच्छति' इत्यादौ । अत्र विषयतासमवायाभ्यां ज्ञानं यथायथं घटरूपकर्मनिष्ठं प्रात्मरूपकनिष्ठश्च । संयोगश्च कर्तृकर्मोभयनिष्ठः । यत्र कत्रवृत्तिकर्मस्थफलं स कर्मस्थमा. वकः । यथा-"भिनत्ति” इत्यादौ । नपत्र द्विधाभवनादि कथमपि भेत्तुपुरुषरूपकर्तृनिष्ठं, किन्तु कर्मभूतदादिनिष्ठमेवेति हेलाराजाद्याः । इच्छतिधातोरपि इच्छानुकूलं ज्ञान नर्थः । अतीतानागतयोरपि बुद्ध्युपारोहात् फलशालित्वं बोध्यम् । पतिस्तु गमिवत्सकर्मकः । 'नरकं पतित' इत्यादिप्रयोगदर्शनात् । विभागजन्यसंयोगमात्रपरत्वे तु अकर्मक एव । “कृञ्' धातोः उत्पत्तिव्यधिकरण: तदनुकूलो व्यापा रोऽर्थः । फलमात्रार्थकत्वे तु यतिवदकर्मकत्वापत्ति: स्यात् । किञ्च-कर्मस्थभावकत्वा भावात् कर्मकर्तरि यगाद्यनापत्तिः । 'कृति' रित्यादौ धातूनामनेकार्थत्वात् यत्नमान्ने वृत्तिः । यद्वा–यत्रकृतिशब्दयोरपि व्यापारसामान्यवा चित्वमेव । अतएव स्थालीस्थे यत्ने पचिना कथ्यमाने "स्थाली पचति" इति साधु । तदेतत् ‘कारक' (पाणि १। ४ । २३ ) इति सूत्रभाष्ये स्पष्टम् ।
___ यत्तु-तार्किका:-धातोः फले व्यापारे च शनिरस्तु । किन्तु लकाराणां (पाख्यातस्य ) कृतावेव शक्विाधवात् नतु कर्तरि शक्तिः, तथासति शक्यतावच्छेदकानां कृतीनां प्रतिकर्तृभिन्नतया नानात्वाच्छक्यतावच्छेदकांशे गौरवं स्याद्, अतस्तत्र शक्त: परित्यागः, कर्तुश्च प्रथमान्तपदेनैव लाभश्च । श्राख्यातार्थे ( कृतौ ) धात्वर्थो विशेषेणं, प्रकृत्यर्थप्रत्ययार्थयोः सहार्थत्वे प्रत्ययार्थस्यैव प्रधान्यात् । पाख्यातार्थस्तुप्रथमान्तार्थे ( कर्तरि ) विशेषणम् । अनुकूलत्वमाश्रयत्वञ्च संसर्गः ( वाक्यार्थभूतः संसर्गमर्यादालभ्यः )। तथा च-"तण्डुलञ्चैत्रःपचति' इत्यत्र कर्मत्वं द्वितीयार्थः, तत्र तण्डुलस्याधेयतयाऽन्वयः । कर्मत्वस्य च पाकेऽ ( धातोरर्थभूते ब्यापारे ) न्वयः,