________________
शक्की मतभेदः।
३१६ प्रत्ययसमभिव्याहारे तु फलमेव विशेष्यं भवति । व्यापारत्वञ्च-धात्वर्थफलजनकत्वे सति धातुवाच्यत्वम् । अनुकूलत्वं संसर्गः । फलनिष्ठजन्यतानिरूपितजनकत्वमनुकूलत्वम् । बोधस्तु-कर्तरि प्रत्यये व्यापारविशेष्यको भवति कर्मणि प्रत्यये तु फलविशेष्यकः । तद्यथा-"चैत्रो ग्रामं गच्छति" इत्यत्र एकत्वावच्छिन्नचत्राभिन्नकर्त्तको वर्तमानकालिको प्रामाभिन्नकर्मनिष्ठसंयोगानुकूलो व्यापार इति कर्तृप्रत्यये, “ग्रामो गम्यते चैत्रेण” इत्यत्र चैत्रकर्तृकवर्तमानकालिकव्यापारजन्यो प्रामाभिन्नकर्मनिष्ठः संयोग इति च कर्मप्रत्यये बोधः । ग्रामसंयोगः प्रकृते फलम् । “ भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि " इति यास्कोक्तेः व्यापारविशेष्यक एव वाक्यार्थबोधः । तत्र तिङ्वाच्यं सङ्ख्याविशिष्टकारकं कालश्च व्यापारविशेषणम् । तथाचोपरि वाक्यार्थबोधद्वयस्थलेऽभिलाप्य दर्शितम् ।
केचित्तु-फलव्यापारयो यदि पृथक् पृथक् धातोः शक्तिः स्यात् तदा तयोरुद्देश्यविधेयभावेनान्वयापत्तिरपि स्यात् । एकस्मिन्नेव पदे ( पचत्यादौ ) व्युत्पत्तिद्वयकल्पने गौरवञ्च भवेत् । अर्थात् – “फलविशेषणकव्यापारबोधम्प्रति कर्तृप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः कारणम्" इत्येकः कार्यकारणभाव: । “व्यापारविशेषणकफलशाब्दबोधे कर्मप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः कारणम् " इत्यपरः कार्यकारणभाव इति कार्यकारणभावद्वयकल्पनरूपं गौरवम् । एकस्यैव धातोरथद्वये शक्तिद्वयकल्पनमिति " अन्यायश्चानेकार्थदर्शनम्" इतिन्यायविरोधश्च धातोबर्बोधजनकत्वरूपसम्बन्धद्वयकल्पनमिति गौरवपरम्परापत्तिरनिवार्या । तेन फलावच्छिन्ने व्यापारे व्यापारावच्छिन्ने वा फले धातूनां शक्तिरभ्युपेया । नचैवं सति सकर्मकाकर्मकव्यवस्था न स्यादिति भेत्तव्यम् कर्तकर्मार्थकतत्तत्प्रत्ययसमभिन्याहारस्यैव सकर्मकाकर्मकशाब्दबोधे हेतुत्वादित्याहुः । _यत्तु-मीमांसकाः फलं धात्वर्थो, ब्यापारः प्रत्ययार्थ इति वदन्ति तन्त्र । " लःकर्मणि"-(३ । ४ । ६६) सूत्रविरोधापत्तेः । नहि तेन सूत्रेण व्यापारः प्रत्ययार्थ इति लभ्यते । किन्तु-कर्ता कर्म वा प्रत्ययार्थः व्यापारस्तु धातुलभ्य एव अनन्यलभ्यश्च शब्दार्थः । अपिच-पचति, पक्ष्यति “ अपाक्षीद् " इत्यादौ फूत्कारादिप्रतीतथे अनेकप्रत्ययानां शक्तिकल्पना मीमांसकस्य गरीयसी तद्वर धातोरेव व्यापारे शक्तिरिति । एवं सकर्मकाकर्मकव्यवहारोच्छेदाभिधानानभिधानव्यवस्थोच्छेदादिदूषणमपि मीमांकस्यानिवार्यमित्यन्यत्र विस्तरः।
___ व्यापारश्च क्रियैव । "व्यापारो भावना सैव सैव चोत्पादना क्रिया" इति हर्युक्रेः । उक्त
यावसिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । प्राश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥ गुणभूतै रवयवैः समूहः क्रमजन्मनाम् ।