________________
३१८ सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे mmmmmmm
(मु० ) एवं विवरणादपि शक्तिग्रहः । विवरणं तु तत्समानार्थक पदान्तरेण तदर्थकथनम् । यथा घटोऽस्तीत्यस्य कलशोऽस्तीत्यनेन विवरणाद्घटपदस्य कलशे शक्तिग्रहः । एवं पचतीत्यस्य पाकं करोतीत्यनेन विवरणादाख्यातस्य यत्नार्थकत्वं कल्प्यते।
(प्र० टी० ) विवरणाच्छनिग्रहं दर्शयति-" एवम्" इति। विवरणं लक्षयति-"विवरणन्त्वि "ति । तदा विव्रियमाणपदं ग्राह्यम् । तत्समानार्थकेतितत्पदशक्यतावच्छेदकावच्छिन्नशक्कतत्पदभिन्नपदेनेत्यर्थः । तदर्थकथनम् = तत्पदशक्य. तावच्छेदकावच्छिन्नप्रतिपादनम् । अभिनीय दर्शयति-" यथे "ति । “घटोऽस्ति" इत्यस्य विवरणं " कलशोऽस्ति" इति । तेन घटपदस्य घटे शकिग्रह इत्यर्थः । नाम्नो विवरणमुदाहृत्य पाख्यातपदस्य विवरणप्रकारमभिधत्ते-“एवं पचती"ति । श्राख्यातस्य-पचतीत्याख्यातस्य । यत्नार्थकत्वं-कृत्यर्थकत्वं । कल्प्यते अनुमीयते । तत्प्रकारश्चायम्-श्राख्यातं यत्नत्वविशिष्टे शतं यत्नत्वविशिष्टशक्किं करोति प्रतिपादितार्थप्रतिपादकत्वाद् " इति । यद्यद्धर्मावच्छिन्नप्रतिपादनार्थप्रतिपादकं तत्त धर्मावच्छिन्नशकम् इति व्याप्तेराकारः । एवञ्च कथं विवरणस्य शकिग्राहकत्वं तद्वाचकपदाभावादिति शङ्का निरस्ता । ऊक्रानुमानेन तस्य शक्तिप्राहकत्वसिद्धेः ।
__(मु०) एवं प्रसिद्धपदसान्निध्यादपि शक्निग्रहः । यथा-इह सह. कारतरौ मधुरं पिको रौतीत्यादौ पिकपदस्य कोकिले शनिग्रह इति ।
(प्र० टी० ) प्रसिद्धपदसन्निधेः शक्तिग्राहकत्वं दर्शयति-" एवमि "ति । प्रसिद्धपदस्य-प्रसिद्धार्थकपदस्य सान्निध्यात् = सन्निधेरित्यर्थः । “इहाम्रवृक्षे मधुररावकर्ता पिकपदवाच्य” इत्याकारको बोधः । प्रसिद्धार्थकसमभिन्याहारोऽपि अनुमानविधया शक्तिग्राहकः । पिकपदस्य पूर्व शक्तिमहाभावात् । कोकिलदर्शनान्तरं " कोकिलः पिकपदवाच्यः सहकारतरौ मधुररावकर्तृत्वात् ” इति तदाकार । उक्तवाक्यस्य शाब्दबोधस्तु-" सहकारतर्ववच्छेद्यमधुराऽभिन्नशब्दानुकूल कृतिमान् पिक" इत्येवंरूपः । सहकारतरावित्यत्र सप्तम्या अवच्छेद्यत्वमर्थः । तस्य रुधात्वर्थध्वनावन्वयः।
तिङर्थधर्मिणि नामार्थान्वयाव्युत्पन्नतया नेदं शनिग्रहस्योदाहरणमिति तु न, " यो यः शूद्रस्य पचति द्विजोऽन्नं सोऽतिनिन्दित" इत्यादौ तिङर्थधर्मिणि तथान्वय. दर्शनेन तादृशनियमस्यासिद्धेरिति-दिनकरी ।
अत्रेदमनुसन्धयम्-फलानुकूलो यत्नसहितो व्यापारो धात्वर्थः । " फलव्यापारयोर्धातु "रित्युक्तेः । तद्धात्वर्थजन्यत्वे सति कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतावत्वं फलत्वम् । विभागजन्यसंयोगादिरूपे पतत्यादि. धात्वर्थे विभागस्य संयोगस्य च फलत्ववारणायोभयदलम् । अर्थात्-विभागस्य फलात्ववारणाय सत्यन्तम् । संयोगे फलत्ववारणाय प्रकारतावत्त्वान्तमुक्तम् । कर्म