________________
वाक्यशेषस्य शक्निनिर्णायकत्वम् । शूकविशिष्टो यवपदवाच्य" इति यवपदशकेराकारः । कङ्गौत्विति-अवधारणार्थकस्तुशब्दः भ्रमादित्यस्योत्तर योज्यः । शक्तिभ्रमादेवेत्यर्थः । “कङ्गुर्यवपदवाच्य" इति तु शक्किभ्रम इत्याशयेनाह-" शक्तिभ्रमात्प्रयोग" इति । तस्मात्सन्देहस्थले वाक्यशेषः शक्निनिर्णायकः । निर्णायते-अप्रामाण्यज्ञानास्कान्दितमानसप्रत्यक्षविषयीक्रियत इत्यर्थः । तटस्थस्येतिशेषः । केषुचिन्मलपुस्तकेषु तु “ अथान्या" इत्यस्याग्रे
वसन्ते सर्वसस्यानां जायते पत्रशातनम् ।
मोदमानाश्च तिष्ठन्ति यवाः कणिशशालिनः ॥ इति श्लोको दृश्यते । तत्र कणिशशालिनः चीजवन्त इत्यर्थः । “कणिशं बीजमस्त्रियाम्" इति कोशात् । ननु · यव' पदस्य हर्यादिपदवमानार्थ एव शक्तिः स्यादित्याङ्क्याह-" नानाशक्तिकल्पने " इति । एकपदस्यानेकशक्तिस्वीकार इत्यर्थः । " गौरवादि "ति--तथाच-दीर्घशूकविशिष्ट इव प्रियङ्गुतण्डुलेऽपि शक्तिस्वीकारे दीर्घशूकत्वादिरूपशक्यतावच्छेदकभेदाच्छक्रिभेदापत्या अप्रामाणिकानन्तशक्तिकल्पन.गौरवप्रसङ्गः । ततश्च शक्यतावच्छेदकानन्त्यमपि दोष इति भावः । कथं तर्हि हर्यादिपदे नानाशक्निकल्पनमित्याह--" हर्यादिपदत्वि"ति । अवधारणार्थकस्तुशब्दो "विनिगमकाभावाद्" इत्यस्योत्तरं योज्यः विनिगमकाभावादेवेत्यर्थः। विनिगमकामा. वादि" ति--हर्यादिपदे कोशस्य $ उभयत्र-हरिरूपेऽर्थे शुकादिरूपे चार्थे तुल्यत्वामानार्थे शकिरस्तु प्रकृते तु वाक्यशेषस्यैव नियामकत्वमिति परः सारः। त्वात् अविच्छिन्नपारम्पर्यागतत्वाच्च । अयमाशयः-शक्यतावच्छेदकभेदेनानन्तशक्तिकल्पनाप्रसङ्गादेकैवशक्तिनोभयविधा । भार्या हि शब्दैकसमधिगम्यधर्माधर्मयोरविप्लुतिलिप्सया शब्दार्थ विविच्य परिपालयन्ति न म्लेच्छाः दृष्टार्थव्यवहारस्य यथाकथचिदपि सिद्धेः । शाके च यवविभ्यर्थवादे एवं श्रूयते ' यत्रान्या ओषधयो म्लायन्ते अथैते मोदमाना एवोत्तिष्ठन्ति ' इति । इतरौषधिविनाशकालेऽभिवृद्धिदीर्घशकेष्वेव दृश्यते नतु प्रियङ्गुषु । वाराहोपानदिध्यर्थवादोऽपि “ वाराहं गावोऽनुधावन्ति " इत्यस्ति । तत्र गवामनुधावनं शुकरे सति सम्भवति नतु कृष्णशकुनी । तस्माधववाराहादिशब्दा नियतैकत्रशक्तिका दीर्घशुकाध इत्यार्यप्रसिद्धयव म्लेच्छप्रसिद्धथपवाहिन्या सति विरोधे निर्णयः । यत्र तु नास्ति विरोधो यथापिक-नेम-सत-तामरसादिशब्देषु तत्र म्लेच्छप्रसिद्धरेवार्थनिर्णायकत्वं नतु तत्र निगमनिरुतादिनार्थान्तरकल्पनाप्रयासः । एतच्च-" चोदितन्तु प्रतीयेताविरोधात्प्रमाणेन " ( पू. मी० ।। ३ । ६) इत्यत्राग्रिम एवाधिकरणे निणीतम् । विस्तरस्तु सोपपत्तिकः भादृदीपिकाप्रभावल्यादिषु द्रष्टव्यः । ६ यमानिलेन्द्र चन्द्रार्कविष्णुसिंहाशुवाजिषु ।
शुकाहि कविभेकेषु हरिर्ना कपिले त्रिषु ॥ इत्यमरः । "हरिबांच्यवदाख्यातो हरित्क्रपिलवर्णयोः' इति विश्वश्च ।