________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्रावल्याः [शब्दखण्ड एतेन कार्यपराणामेव वाक्यानां प्रामाण्यं न तु सिद्धवस्तुपराणामिति प्रत्युक्त भवति । उकरीत्या सङ्गतिग्रहसम्भवात् प्रयोजनवत्त्वाच्च अनधिगतार्थबोधकतया प्रामाण्योपपत्तेः । एवं व्यवहारे ( प्रक्रियायां ) भट्टवेदान्तिनोः प्रायो नयैक्यं विज्ञेयम् ।
(मुक्ता० ) एवं वाक्यशेषादपि शक्तिग्रहः । यथा यवमयश्चरुर्भवतीत्यत्र यवपदस्य दीर्घशूकविशेषे आर्याणां प्रयोगः कङ्गौ तु म्लेच्छानाम् तत्र हि " अथान्या श्रोषधयो म्लायन्तेऽथैते मोदमानातिष्ठन्ति " इति वाक्यशेषादीर्घशूके शक्तिर्निीयते, कङ्गौ तु शक्तिभ्रमात्प्रयोगः, नानाशक्तिकल्पने गौरवात् । हर्यादिपदे तु विनिगमकाभावान्नानाशक्तिकल्पनम् ।
(प्र० टी० ) वाक्यशेषात् शनि ग्रहं दर्शयति-" एवम्" इति । उदाहरति'यथेति । यवमय: यवविकारः । “ मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः" ( ४ । ३ । १४३) इति सूत्रेण विकारार्थो मयट् । तथाच-यवविकारीभूतचरुभवनमिष्टसाधनमिति शाब्दबोधः । भवतीत्यत्र भूधातूत्तरलट्प्रत्यनेन इष्टसाधनत्वबोधनात् । इत्यत्र यवपदस्य एतादृशश्रुतिघटकयवपदस्य । चरुः=देवदेयं हविः । श्रार्याणाम् याजकानां द्विजानाम् । प्रयोगः-शाब्दव्यवहारः अभिलाप इति। शक्त्या बोधतात्पर्येणोचारणमित्यर्थ इति यावत् । कनौत्विति-तुरवधारणे । प्रियङ्गुतण्डुल एवेत्यर्थः । तत्राहि-दीर्घशूकविशिष्टप्रियङ्गुततण्डुलयोरित्यर्थः । म्लेच्छानाम् अपशब्दभाषिणां यवनादीनाम् । व.क्यशेष दर्शयितुमाह-तत्रहीं'ति । अन्याः दीर्घशूकविशिष्टान्या यवभिन्नानि सस्यानीत्यर्थः । म्लायन्ते ग्लानवत्यो भवन्तीत्यर्थः । “मोदमाना इवोत्तिष्ठन्तीति पाठे मोदमाना एवेत्यर्थः उत्तिष्ठन्ति परिदृश्यमानास्तिष्ठन्तीत्यर्थः मोदमाना=समञ्जरीका हरिताश्चेत्यर्थः । अस्माद् वाक्यशेषात् दीर्घशूके शविनिणीयते " सन्दिग्धषु वाक्यशषात् " ( पू० मी० ।। ४ । १६ ) इत्युक्तेः । अत्र हि " अकाः शर्करा उपदधाति " इत्याकारे श्रुतिवाक्ये शर्कराञ्जनसन्देहे " तेजो वै घृत" मिति वाक्यशेषे तेजस्त्वेन घृतस्य स्तूयमानत्वात् घृतेनाका नतु तैलादिनेत्यर्थोऽवसीयते यथा, तद्वत्प्रकृतेऽपि बोध्यम् । * म्लेच्छप्रसिद्धरार्यप्रसिद्धिर्बलीयसीति भावः । “दीर्घ
* इदश्च पूर्वमीमांमाया: प्रथमाध्यायस्य तृतीयपादे आर्यम्लेच्छप्रसिद्धयधिकरणे ( शास्त्रप्रसिद्धार्थप्रामाण्याधिकरणे ) तेष्वदर्शनाद्विरोधस्य समा विप्रतिपत्तिः स्यात्, शास्त्रस्था वा तन्निमित्तत्वात् ' इति द्वाभ्यां ( ८,६ ) सूत्राभ्यां निणीतम् । सचैष निर्णयः- यवमयश्चरुर्भवति, वाराही उपानहावुपमुञ्चते ' इति श्रूयते । तत्रार्याणां यबपदस्य दीर्घशके व्यवहारः, म्लेच्छानान्तु प्रियङ्गो ( कङ्गौ ) वर्तते । वराहशम्दावार्याः शूकरे म्लेच्छास्तु कृष्णशकुनौ प्रयुञ्जते । तत्र लोकव्यवहारेण निश्चेतव्येषु शब्दार्थेषु आर्यम्लेच्छप्रसिद्धयोः समबलतया उभयाविधार्थग्रहणे विकल्पः स्यात् ( वात्स्यायनोऽपि ऋष्यायम्लेच्छानां समान लक्षणमित्याह ) एवम्प्राप्ते पूर्वपक्षे-सिद्धान्तः-शास्त्रीयप्रसिद्धिरेव पलीयसी प्रत्यासन्न