________________
सिद्धार्थेऽपि पदानां शक्तिः ।
तादृशवाक्यानुसन्धानान्तरमेव निरुकवाक्याच्छाब्दबोधो नान्यथेति नियमे माना भावादित्यर्थः।
नियमाभ्युपगमपक्षेऽपि दोषमाह-चैत्र इति । तदभावाच्चेति । पश्येति कार्यतावाचकलोडन्तदृश्धातुपदाध्याहारासम्भवाश्चेत्यर्थः । प्राणसंयोगविशिष्टशरीरस्यैव पुत्रपदार्थतया नष्टे प्राणसंयोगविशिष्टत्वाभावेन तस्य दर्शनकर्मत्वासम्भवादिति भावः ।
'अध्याहारेऽसम्भवमपि दर्शयति “चैत्र" इति । " जातो मृतश्च " इत्यत्र देशान्तरे स्थितजैत्रप्रति "तं पश्य" इत्यध्याहारासम्भव एवेत्यर्थः । भहमतप्रक्षेपव्याजेन स्वमतमुपसंहरति-" इत्थचे "ति । लाघवात्-अन्वितघटे शक्निकल्पनापेक्षया घटमात्रे तस्य लाघवात् । श्रन्वितघटे-सम्बद्धघटे । भहमते यद्यपि कार्यान्विते न शक्तिः तथापि इतरान्विते शविरस्त्येव । अत्र भट्टानामयमाशयः-यद्यप्यन्यलभ्यस्वाद् घटादिपदानां कार्यान्वितघटादौ न शक्तिः तथाध्यनन्यलभ्यत्वात्समभिव्याहृतपदार्थान्वयविशिष्टघटादौ शक्तिरावश्यकी न केवलघटादौ, तथासति-पदार्थद्वयसंसर्गस्यापदार्थत्वेन तस्य शाब्दयोधे भानानापत्तेः । नच तस्य संसर्गतयैव भानमस्विति वाच्यम् तत्प्रकारकशाब्दबोधभानस्यैवानुभवसिद्धत्वादिति । इत्थञ्चत्यत्र चोऽवधारणे। समभिव्याहृतपदार्थान्वयविशिष्टघटत्वादेः घटादिपदशक्यतावच्छेदकत्वे गौरवादिदोषा देवेत्यर्थः । लाघवादित्यस्यावधारयतीत्यनेनान्वयः । तत्रापि पूर्ववत्कार्यतावच्छेदकोशे गौरवमेवास्तीति भावः । वेदान्तिनोपि-अन्विते शक्तिरित्याहुः । तेषामाशयःपदानां लाघवादितरान्विते पदार्थे शक्किने कार्यान्विते गौरवान्मानाभावाच्च । यद्यपि प्रथमव्युत्पत्तौ कार्यान्विते पदानां शनिगृह्यते तथापि पर्यायान्तरे कार्याशं गौरवबलेनोपेच्य इतरान्विते पदार्थे पदानां सामर्थ्यमवधार्यते तावतैव व्यवहारोपपत्तेः । नचैवं कार्यताज्ञानाभावे प्रवृत्यभावात्कथं शनिग्रह इति वाच्यम् " पुत्रस्ते जात" इति वाक्यश्रवणानन्तरं सिद्धार्थज्ञानादपि मुखविकासनेन हर्षमनुमाय ॐ अनन्तरं तस्य चाक्यजन्यत्वमन्वयम्यतिरेकाभ्यां । निश्चित्यास्य शक्लेरवधारणेन कार्यताज्ञानस्य सर्वत्र अतन्त्रत्वात् । तदुक्कं वाचस्पतिमित्रैः समन्वयसूत्रीयभाष्य-भामतीटीकायाम्
+ कार्यबोधे यथा चेष्टा लिङ्गं हर्षादयस्तथा ।
सिद्धबोधेऽर्थवत्ता च शास्त्रत्वं हितशासनात् ॥ इति * अयं हर्ष इष्टज्ञानजन्यः हर्षत्वात् सम्प्रतिपन्नवत् ।
+ इदमिष्टनानं वाक्यजन्यम् एतद्वाक्यान्वयव्यतिरेकानुविधायित्वाद् दण्डान्वयव्यतिरेकानुविधायिथटवत् ।
अत्र “ विवादाध्यासितानि वचनानि भूतार्थविषयाणि भूतार्थविषयप्रमा जनकत्वात् । यद्याद्विषय प्रमाजनकं तत्तदिषयं यथा रूपादिविषयं चक्षुरादि, तथा चैतानि, तस्मात्तथेति" इति भामतीकाराणामनुमानमपि बोध्यम् ।