________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे
सुखदुःखे नैव स्त: तत्र हेत्वन्तरादर्शनात् । वाक्ये च किमपि कार्यताबोधकं लिडादिपदं न पश्यामः, तेन मन्यामहे यदस्ति कार्यानन्वितोऽपि शब्दो बोधहेतुरिति कार्यान्वितशक्निग्रहो व्यभिचरितः प्रभाकरस्य ।
किञ्च सर्वथा कार्यान्वित एव शक्तिं वदतां प्राभाकाराणां मते "ब्राह्मणो न हन्यव्य" इत्येवमादिभ्यो वाक्येभ्यो निवृत्त्युपदेशानुपपत्तिप्रसङ्गोऽनिवार्यः स्यात् नह्येवंविधर्वाक्यैः किमपि कार्यमुपदिश्यते हननादिक्रियानिवृत्यौदासीन्यव्यतिरेकेण । नमश्चैष स्वभावो यत्स्वसम्बन्धिनोऽभावं बोधयतीति । शास्त्रतात्पर्यविदो प्याहुः । तथाहि अत्र नमः प्रकृत्यर्थेन सम्बन्धात् हननाभावो नअर्थः, इष्टसाधनत्वञ्च तव्यादिप्रत्ययार्थः, इष्टञ्चात्र नरकदुःखाभावः, तत्परिपालको हननाभाव इति निषेधवाक्यार्थः । “हननाभावो दु:खाभावहेतु" रित्युक्ती अर्थात्-हननस्य दुःखसाधनत्वधिया पुरुषो निवर्त्तते, नात्र नियोगः कश्चिदस्ति नच हननाभावरूपा नब्वाच्या निवृत्तिः क्रियास्तीति कश्चिदप्यनुन्मत्त उत्प्रेक्षेत । अभावत्वादेव च न क्रियासाधनम् । अतो निषेधशास्त्रस्य सिद्धार्थे प्रामाण्यमकामेनाप्यभ्युपेयम् । उनञ्च सर्वज्ञात्ममुनिभिः सङ्क्षपशारीरके... अपिच प्रतिषेधचोदनाविषयः स्यात्प्रतिषिद्धकर्मणः।
फलगर्द्धिनिवृत्तिरेव सा न नियोगो नच तस्य गोचरः ॥ इति ... तस्मात्कार्यान्विते शक्ति वदतां प्राभाकराणां " ब्राह्मणं न हन्याद् " इत्यादी व्यभिचारो दुरुद्धर एवेतियुक्तमाभाति । विस्तरस्तु गदाधरभट्टाचार्यादिप्रणीत "विधिस्वरूपविचारा"दिषु द्रष्टव्यः ।।
सुखदुःख-चैत्रात्मवर्तिनी ये स्तः । तत्कारणत्वेन=सुखदुःखयो: कारणत्वेन। तद्धेतुतया तादृशशाब्दबोधहेतुतया । तं शब्दम्=पुत्रादिशब्दम् । अवधारयति निश्चिनोति । व्यभिचारात्-घटादिपदानां कार्यान्वितघटादिबोध एव सामर्थ्यमिति नियमस्य " चैत्र पुत्रस्ते जात" इत्यादौ अनैकान्तिकत्वादित्यर्थः । शिष्टं स्पष्टं व्याख्यातप्रायञ्च ।
आशङ्क्य समाधत्ते-" नचे "ति “चैत्र ! पुत्रस्ते जात" इत्यादिवाक्ये " ते पश्य " इति क्रियापदस्याध्याहारं करिष्यामः, तेन नोक्लो व्यभिचार इति शङ्काकर्तुराशयः । तथाच-तत्रापि लौडादिजन्यकार्यत्वोपस्थितेः सत्त्वेन कार्यताविषयकबोधस्यैवोत्पादान्न तादृशनियमे व्यभिचार इति भावः । एवंविधाध्याहारे न किमपि प्रमाणमस्ति, निष्प्रमाणकञ्च नादराहमिति समाधातुराशयः । मानाभावाच्च-अश्रुत
+ श्रीपूज्यपादा आदिनश्रीशङ्कराचार्याः ।
" न पिबेत्" इत्यादिचोदनाया हि प्रतिषिद्धस्य पानादे: फलस्पृहानिवृत्तिरेव विषयः । सा चौदासीन्यलक्षणा पानादिप्रागभावरूपत्वनायित्वान्न नियोगो नवाऽननुष्ठेयत्वान्नियोगविषयोऽपीत्यर्थः । अतएव न भावनारूपोऽपीति भावः ।