________________
मीमांसकमतनिरासः ।
३१३
"तन्न" इत्यादिना । प्रथमतः प्राथमिकशक्रिग्रहकाल इत्यर्थः । कार्यान्वितघटादौ आनयनादिकार्यसंसर्गविशिष्टघटपटादिपदार्थे । शक्तयवधारणेऽपि-शक्त: सङ्केतरूप.या: पदीयसामर्थ्यरूपाया वा निश्चयेऽपि । लाघवेन-कार्यत्वान्वितघटशाब्दत्वापेक्षया घटशाग्दत्वस्य कार्यतावच्छेदकांशे शरीरात्मकलाघवेनेत्यर्थः । पश्चात् कार्यान्वितघटादौ शक्त्यवधारणानन्तरम् तस्य-शक्त्यवधारणस्य परित्यागौचित्यात-स्वीकर्तुमयोग्यत्वात् । विनापि कार्यान्वयं घटपटादिशब्दैः सिद्धार्थबोधसम्भवादिति भावः।
__(मु०) अत एव " चैत्र पुत्रस्ते जातः कन्या ते गर्भिणी जाता" इत्यादौ मुखप्रसादमुखमालिन्याभ्यां सुखदुःखे अनुमाय तत्कारणत्वेन परिशेषाच्छाब्दबोधं निर्णीय तद्धेतुतया तं शब्दमवधारयति । तथा च व्यभिचारात्कार्यान्विते न शक्तिः । नच तत्र तं पश्येत्यादि शब्दान्तर• मध्याहार्य, मानाभावात् । चैत्र ! पुत्रस्ते जातो मृतश्चेत्यादौ तदभावाच । इत्थं च लाघवादन्धितघटेऽपि शक्तिं त्यक्त्वा घटपदस्य घटमात्रे शक्तिमवधारयति ॥ ' (प्र० टी० ) उक्नार्थे गमकमाह-" अत एवे "ति । अतएव कार्यत्वा. ऽविषयकबोधम्प्रति पदानां हेतुत्वादेव । " चैत्र पुत्रस्ते जातः" कन्या कुमारिका ते गर्भिणी इत्यादौ-इस्यादिवाक्ये श्रुते सतीत्यर्थः। मुखप्रसादमुखमालिन्याभ्याम् मुखप्रसादो मुखविकासः, मुखमालिन्यम्-मुखधूसरत्वं ताभ्यां सुखदुःखे अनुमाय= पुत्रस्य निरयत्रायकस्वाजन्मनि सुखम् , कन्यागर्भे च तदीयपातादिराजदण्डादिभीतेदुःखम् , तयोरनुमानं कृत्वा । तत्कारणत्वेन=सुखदुःखयो: कारणत्वेन । परिशेषात्= लिङ्गज्ञानात् अर्थात् -" चैत्रसमवेते सुखदुःखे साऽसाधारणकारणके जन्यगुणत्वाद् " . इत्यनुमानाद् असाधारणकारणजन्यत्वे सिद्धे -“ तादृशसुख दुःखं वा निरुतवाक्यीयज्ञानाधीनशाब्दबोधाऽसाधारणकारणकं तदितराऽसाधारणकारणकत्वाभावे सति सासाधारणकारणकत्वाद् ” इत्येवं रीत्या अनुमानात् “चैत्रपुत्रस्ते जात " इत्यादिवाक्यस्य तादृशशाब्दबोधप्रयोजकत्वं निश्चिनोति ॥
अंत्रायमाशय:-'चैत्र' इत्यादिवाक्ये कार्यताबोधकं किमपि लिङादिपदं नास्ति, तथापि श्रोतुश्चैत्रस्य बोधो जायत एवेति पार्श्वस्थोऽपि जानाति । तथाहि-उत्रं वाक्यं श्रुत्वा पुत्रजन्मना चैत्रः सुखी भवति कन्यागर्भ ण च दुःखी जायते, परन्तु चैत्रीयसुखदुःखयोः प्रत्यक्षं चैत्रस्यैव, तथापि पार्श्वस्थो मुखप्रसादलिङ्गेन तदीयं सुखं, मुखमालिन्येन लिङ्गेन च तदीयं दुःखमनुमाति । तद्वाक्यार्थबोधमन्तरा च चैत्रस्य
* कार्यान्वितेऽर्थेपदानां शक्तिरित्यस्मिन्नर्थे ।
* अनुमानप्रकारश्चायम्-'अयं चैत्रः सुखी संवृत्तः पुत्रोत्पत्तिबोधकवाक्य. श्रवणोत्तरं मुखप्रसादवत्वात् , तथाचायं दुःखी संवृत्तः कन्यागर्भबोधकवाक्य श्रवणोत्तरं मुखमालिन्यवत्त्वात् यज्ञदत्तादिवत् ।