________________
३१२
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे
" अाम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम् ' (पू० मी० १ । २ । १ ।) इत्यादिसूत्रैः सिद्धार्थप्रतिपादकतया अर्थवादानामप्रामाएपमाशङ्कय विधिवाक्यैः सहैकवाक्यतया प्रामाण्यमवधारितम् । तथाहि-काम्यपशुकाण्डे विध्यर्थवादी श्रयेते"वायव्यं श्वेतमालभेत भूतिकामः" (तैत्ति. २ कां० । प्र० १ । कं० १ ) इति विधिः । "वायुवै क्षेपिष्ठा देवता वायुमेव स्वन भागधेयेनोपधावति स एवैनं भूतिं गमयति" (तैत्ति०२ कांप्र०१।०१) इत्यत्र विधिवाक्यगता वाय्वादिशब्दा: स्वतो विशिष्टमर्थमभिदधति । अर्थवादशब्दा अपि विधिशब्दनिरपेक्षतया भूतार्थमन्वाचक्षते । “क्षिप्रगामी वायुर्देवः स्वोचितेन भागेन तोषितो भागप्रदायश्वयं प्रयच्छति" इत्युक्ते रामायणादि. वत्कश्चित् वृत्तान्तः सिद्धरुप: प्रतीयते नत्वनुष्ठेयं किंञ्चिदस्तीत्येकवाक्यत्वाभावासिद्धार्थपराणामर्थवादानां धर्म नास्ति प्रामाण्यमिति पूर्वपक्षे प्राप्ते उच्यते
पदैकवाक्यताया अभावेऽपि विध्यर्थवादवाक्ययोर्वाक्यैकवाक्यता भवितुमर्हति अर्थात् विधिवाक्यं पुरुषं प्रेरयितुं विधेयार्थस्य प्राशस्त्यमपेक्षते, अर्थवादवाक्यञ्च फलवदर्थावबोधपर्यवसिताध्ययनविधिपरिगृहीतत्वेन पुरुषार्थमपेक्षते । तत्र पुरुषार्थपर्य: वसितविध्यपेक्षितं प्राशस्त्यं लक्षणाद्वारा समर्पयदर्थवादवाक्यं विधिवाक्येन सह नष्टाश्व दग्धरथन्यायेनैकवाक्यतामापद्यते । “यतः क्षिप्रगामिस्वभावतया शीघ्रफलप्रदो वायुरस्य पशोर्देवता तत: प्रशस्तमिदं कर्म वायव्यं पशुमालभेत" इत्येवं वाक्ययोः परस्परमन्वय । तस्मादर्थवादवाक्यानां धर्मे* प्रमाण्यम् । नच सिद्धार्थपरकता वेदस्येति प्राभाकरादीनामाशयः । उभयपक्षीयसाधकबाधकयुक्तिपूर्वकाविरोधपरिहारसारस्तु गुरूपासनया आकरग्रन्थपरिशीलनेनैव ज्ञातुं सुशकः, प्रकृतानुपयुक्तत्वान्मयात्र विस्तरो न कृतः ।
(मु०) घटादिपदानां कार्यान्वितघटादिबोधे सामर्थ्यावधारणात् , कार्यताबोधं प्रति च लिङादीनां सामर्थ्यात्तदभावान्न शाब्दबोध इत्यपि केचित् । तन्न । प्रथमतः कार्यान्वितघटादौ शक्त्यवधारणेऽपि लाघवेन पश्चात्तस्य परित्यागौचित्यात्।
(प्र० टी० ) छात्रोपपत्तिमाह-“घटादिपदानामि"ति । अधस्ताद्वयाख्यातप्रायोऽयं ग्रन्थः । कार्यान्वितेति-कार्यत्वञ्च कृत्युद्देश्यत्वरूपम् । इदन्तु शेध्यम्-प्राभाकरा वेदलिङादिविषये कार्यत्वेनाऽपूर्वविषयकशाब्दबोधं स्वीकुर्वन्ति । अत्रचापूर्वस्य प्रथममनुपस्थितत्वेन तत्र शक्तिग्रहासम्भव इत्याशङ्कायां सामान्यलक्षणामनङ्गीकुर्वाणा एते " स्वन्मते यथाऽनुभूते गवि गृहीतशक्तिकत्वाद्वादिपदाद् योग्यताबलात् पूर्वाऽननुभूतगवादिविषयकशाब्दबोधो भवति तथा मन्मतेऽपि घटादौ कार्यत्वेन गृहीतशक्तिकलिङादितोऽपि स्वर्गकामो यजेतेत्यादौ यागजन्यं कार्यमिति घटादिरूपकार्ये यागजन्यत्वस्य बाधितत्वेन योग्यताबलादपूर्वविषयकशाब्दबोधो भवति" इत्येवं समादधते । केचिदिति-प्राभाकरा इत्यर्थः । तदेतत् खण्डयति नैयायिकः
* विधिवाक्यैः सहकीभूयैवति शेषः ।