________________
शक्तिप्रहे प्राभाकरमीमांसकमतम् ।
-
1
प्रयुक्त उपदेष्टा, साक्षात्करणमर्थस्याप्तिस्तया प्रवर्त्तत इत्याप्त" इति । तस्यैवलक्षणलक्षितस्याप्तस्य वाक्यादपि शक्तिग्रहो भवति । यथा - 'पिक' - पदस्यार्थमजानानो बालः कञ्चनाप्तं पृष्टवान् यत् " पिकपदवाच्यः कोऽस्ती” ति । तद्धितैषिणा तेनोकं ''कोकिलः पिकपदवाच्यः” इति । तद्वाक्यं श्रुत्वा बाल:- पिकपदीयशक्तिग्रहशून्यः पुरुषः पिकपदस्य कोकिलरूपार्थे शक्तिमवधारयति । “ एवं व्यवहारादपी' ति । शक्तिग्रह इति शेषः । यथा – व्यवहाराच्छक्तिग्रहो जायते तथाऽभिनीय दर्शयति — “ यथे" ति । अत्र प्रयोजकवृद्धो गुर्वादिः प्रयोज्यवृद्धः शिष्यादिः । बालोऽज्ञातघटादिपदशक्रिको नतु स्तनन्धयमात्र एव । अवापोद्वाप (भ्याम् अन्वयव्यतिरेकाभ्याम् । अर्थात् क्रियापदप्रचेपोद्धाराभ्यामित्यर्थः । घटं नयेत्यत्र घटपदसत्त्वे कम्बुग्रीवादिमत्पदार्थबोध: । श्रानयपदव्यतिरेकेण कम्बुग्रीवादिमत्पदार्थबोधाभावः । श्रानयपदसवे धानयनपदार्थबोध इत्याकारकौ तावन्वयव्यतिरेकाविति ताभ्यामिति निर्गलितोऽर्थः । श्रवधारयति = निश्चिनोति । श्रयमत्राभिप्रायः - प्राभाकरा मीमांसका इत्थं मन्यन्ते यद् घटादिपदानां कार्यान्वितघटादौ शक्तिः अर्थात् "घटपदं कार्य्यान्वितघटरूपेऽर्थे शक्तम्" इत्याद्याकारकः शक्तिग्रह एव घटानयनं कार्यम्" इत्याकारकशाब्दबोधम्प्रति कारणमिति नियमः । यदा "भो शिष्य ! त्वं घटमानय" इति वाक्यं प्रयोजको गुर्वादिरुच्चारयति तदनन्तरं प्रयोज्यः शिष्यादिस्तदाकर्ण्य घटानयने प्रवर्त्तते । पार्श्वस्थो बालस्तु - " श्रयमेतद्वाक्यजन्यैतदर्थगोचरज्ञानवान् एतद्वाक्यश्रवणानन्तरमेतदर्थगोचरचेष्टावत्वात्" इत्यनुमाति । ततो " घटं नय गामानय" इति प्रयोजकवृद्धोक्तिं श्रुत्वा प्रयोज्यवृद्धेन तथानुष्ठिते सति स एव बालः 'घट' पदस्यानयनकार्यान्वितायां कम्बुग्रीवादिमत्यां व्यक्तौ "गोपदस्य च सास्नादिमत्यां व्यक्रौ शक्तिमवधारयति । तस्माद्वयवहारतो घटादिपदानां कार्यान्विते घटादिरूपार्थ शक्तिरित्येष राजमार्गः । एवञ्च साक्षात्परम्परया वा कार्यान्वितविषयक - शाब्दत्वावच्छिन्नम्प्रति कार्यान्वित पदत्वेन कारणति कार्यकारणभावः पर्यवसितः । इयमेव कार्यान्विते पदानाम् “श्रानुभाविकी शक्ति” रित्युच्यते । तस्मात् कार्यत्वान्वितविषयकशाब्दत्वव्यापकी भूतकार्यता विषय कशाब्दत्वावच्छिन्न जनककार्यतावाचका लङादिपदाभावात् कोशादितः शक्तिग्रहो नार्हति भवितुमिति ध्येयम् । 'इत्थञ्चे 'ति । दर्शितरीत्या लिङादिपदसत्त्व एव कार्यताबोधात् " भूतले नीले घट" इत्यादिवाक्यादपि न शाब्दबोधः । तत्र कार्यतावाचकलिङादिपदाभावात् । सिद्धार्थे नैव पदानां शक्तिरिति भावः । श्रतएव
३११
-
अत्राह — सर्वतन्त्र स्वतन्त्रो वाचस्पतिमिश्रोऽपि - " श्राप्तानामृष्यार्थ म्लेच्छानामुपदेशः शब्दो नत्वनाप्तानां मायामेोहनिर्मितानां बुद्धर्षभादीनां प्रमाणविरुद्धक्षणिक सर्वधर्मनैरात्म्यवादिनामिति". इति । तत्रैव “ऋष्यार्थम्लेच्छाना" मित्यस्य ऋषीति प्रतीकमादाय - " दर्शनादृषिः करतला मलकफलवत् साक्षात्कृतत्रैकाल्यवृत्तिप्रमेयमात्रः । श्राराद्यातः पातकेभ्य इत्यार्यो मध्यलोकः । म्लेच्छाः प्रसिद्धाः । म्लेच्छा अपि हि प्रतिपथमवस्थिताः पान्थानामपहृतसर्वस्वानां मार्गाख्याने हेतुदर्शनशून्या भवन्त्याशा इति" इति च ।