________________
३१०
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे " कोशादि "ति-स्वसमानार्थबोधकशब्दसमूहरूपाद् अमरसिंहादिप्रणीतात् कोशग्रन्थात् । " अमरा निर्जरा देवा " इत्यादिरूपादपि तत्तद्देवाद्यर्थे अमरादिपदानां शकिग्रहो भवतीत्यर्थः । “ सती "ति- परन्तु सति बाधक बाधकसद्भावे क्वचित् त्यज्यते-कोशीयशक्तग्रहस्य परित्यागोपि युज्यते इत्यर्थः। तदेतद्दर्शयति- यथे "ति " नीलादी" त्यारभ्य “लक्षणत्य" त्यन्तस्य ग्रन्थस्यायमाशय:-"गुणे* शुक्रादयः पुंसि गुणिलिङ्गास्तु तद्वति" इति कोशेन शुक्रादिशब्दानां शुक्रादिगुणरूपेर्थे शक्रिः प्रद. र्शिता, अथच शुक्रादिगुणविशिष्ट पटादावपि शक्तिरित्युभयन्त्र शकिग्राहकत्वं कोशस्य । एवं सति नीलादिमत्त्वरूपे शक्यतावच्छेदकांशे गौरवं परं नीलत्वरूपशक्यतावच्छेदकधर्मस्वीकारे लाघवमिति लाघवात-अर्थात् "नीलादिमत्त्वस्य" शक्यतावच्छेदकस्वरूपे गौरवात-उपस्थितिकृतगौरवात् । नीलत्वस्य च शक्यतावच्छेदकत्वे लाघवबलेन शुक्र. नीलादिरूपो गुण एव वाच्यः शक्यः तद्विशिष्टे पटादौ तु नीलादिपदानां ल तणैव । कचित्तु "गुणवचनान्मतु लुगिष्ट" इति वार्तिस्मरणात्, लुप्तेन मंतुपैव विशिष्टार्थबोधसम्भवे लक्षणाश्रयणे नास्ति किंञ्चित्फलमित्यपि वदन्ति । तदस्मभ्यमपि रोचते मुख्यया वृत्त्या प्रयोजनसम्भवे जघन्यवृत्तेराश्रयणस्यायुक्रत्वात् । रामरुद्रप्रभृतयस्तु “अब नीलो घटोऽस्ति इत्यादौ सर्वत्रैव शाब्दबोधात्पूर्व लुप्तमतुबर्थप्रत्ययकल्पनामपेक्ष्य नीलादिरूप. विशिष्टे नीलादीनां पदानां लक्षणाकल्पनमेव ज्याय" इत्येवमेवाहुः । तत्र सन्तु पण्डिताः प्रमाणम्, ग्रन्थगौरवभयानाधिकं लिख्यते ।
(मु०) एवमाप्तवाक्यादाप । यथा कोकिलः पिकपदवाच्य इत्य दि शब्दात्पिकादिपदशक्निग्रहः । एवं व्यवहारादपि । यथा प्रयोजकवृद्धन घट. मानयेत्युक्तम् । तच्छ्रुत्वा प्रयोज्यवृद्धेन घट आनीतः तदवधार्य पार्श्वस्था बालो घटानयनरूपं कार्य घटमानयेतिशब्दप्रयोज्यामेत्यवधारयात । ततश्च घटं नय गामानयेत्यदावावापोद्वापाभ्यां घटादिपदानां कार्यान्वितघटादौ शक्तिं गृह्णाति । इत्थं च भूतले नीलो घट इत्यादिशब्दान्न शाब्दबोधः।
(प्र० टी०) “एवमाप्तवाक्यादिति । प्रयोगहेतुभूतयथार्थज्ञानवानाप्तः । उक्कन्च वात्स्यायनीये "प्राप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया
* नच-गुणवाचकत्वे शुक्लादिशब्दानां पुल्लिंङ्गत्वेन "शुक्लं रूपम्" इति प्रयोगानुपपत्तिः "शुक्लो रूपम्" इति प्रयोगापत्तिश्चेति वाच्यम् "गुण शुक्लादय" इति कोशघटकगुणशब्दस्य विशेष्यार्थकतया तादृशगुणिशब्दस्य विशेषणार्थकतया च "विशेष्यवाचकशुक्लादिशब्दाः पुंसि विशेषणवाचकशुक्लादिशब्दो गुणिलिङ्ग' इत्यर्थलाभात् शुक्लं रूपमित्यत्र शुक्ल शब्दस्य विशेषणवाच. कत्वेन नपुंसकलिङ्गत्वं नतु पुल्लिङ्गत्वं विशष्यवाचकत्वाभावदित्यत्र कोशतात्पर्यादिति प्राचीनाप्रभा।
घटादिपदानां शक्किं गृह्णाति सामान्येन विशिष्टार्थस्य शक्ति निश्चिनातीत्यर्थः न्यायप्रथमाध्यायस्य प्रथमाहिके-"प्राप्तोपदेशः शब्दः' (१ । १ । ७) इति सूत्रभाष्ये