________________
उपमानाच्छक्किग्रहो नीलादिपदानां विशिष्टे लक्षणा च । ३०६ नव्यमते तु-" तण्डुलं पचती" त्यत्र विक्लित्तिरूपफलप्रकारको बोधः । " पच्यते तण्डुल" . इस्यत्र तु फलप्रकारकबोधस्यानुभवसिद्धत्वात् फलमात्मनेपदार्थः । तथाच-' चैत्रेण पच्यते तण्डुल" इत्यत्र तृतीयार्थः कृतिः, सा जन्यत्वसम्बन्धेन पाकेऽन्वेति, पाको जन्यत्वसम्बन्धेन फले, चैत्रस्तृतीयार्थे । एवञ्च" चैत्रीयकृतिजन्यपाकजन्य-(विक्नित्तिरूप )- फलशाली तण्डुल" इति बोधः । मतद्वयेऽपि न भावनाविशेष्यश्चैत्रः किन्तु तण्डुल इति । केचित्तु-कर्तृत्वं तृतीयार्थः । ततश्च-"चैत्रकर्त्तकपचनकर्मीभूतस्तण्डुल" इति व्याख्यानयन्तीति कृतमतिकल्पनया ग्रन्थगौरवकारिण्या । अधिकजिज्ञासवो न्यायसिद्धान्तमञ्जरीकुसुमाञ्जलिप्रकाशप्रभृतिप्रन्थान् परिशीलयन्तु । मदीयं वा "वाक्यार्थनिर्णयं" पठन्तु। ..
एवमेव जानातीत्यादावाह-"जानाती"ति “ चतुर्जानाति " इत्यत्र" ज्ञानानुकूलग्यापाराश्रयश्चक्षु "रिति लक्षणया बोधः । ज्ञानानुकूलकृतेरचेतने चक्षुष्यभावात् । नश्यतीत्यादाविति-" घटो नश्यति " इत्यादी नाशानुकूलव्यापारा. श्रयत्वे प्रतियोगित्वे बोक्नव निरूढा लक्षणा । ततश्च -" स्वध्वंसानुकूलव्यापाराश्रयः स्वध्वंसप्रतियोगी वा घट" इत्यन्वयबोधः।।
धात्वर्थमुख्यविशेष्यकशाब्दबोधस्तु वैयाकरणानां न युक्तः । तथासति '® प्रयाति पुरुषस्तस्य चरणावभिवादयेत" इयत्र वैयाकरणनयानुसारेण " देव. दत्ताभिन्नैककर्तृक वर्तमानकालिकं प्रयाणम् "इति बोधः स्यात् । तदादीनामुत्सर्गतः प्रधानपरामर्शित्वनियमात् । प्रधानञ्च विशेष्यमेव, तच्च वैयाकरणमते पाख्यातार्थरूपमिति कृत्वा " प्रयाण सम्बन्धिचरणाभिवादनम्" इत्यन्वयः पर्यवसास्यति । तत्र प्रयाणसम्बन्ध्यभिवादनाप्रसिद्धः श्राख्यातार्थमुख्यविशेष्यकशाब्दबोधपक्षं परित्यज्य नैयायिकैः प्रथमान्तार्थमुख्यविशेष्यक एव शाब्दबोध प्रादृतः । तथाच-वर्तमानकालिकप्रयाणानुकूलकृतिमान् यस्तत्सम्बन्धिचरणकर्मकाभिवादनानुकूलकृतिमान्भवेद् " इति वाक्यार्थी युक्तः ।
(मु० ) उपमानाद्यथा शक्तिग्रहस्तथोक्नम् ॥ एवं कोशादपि शक्तिग्रहः सति बाधके क्वचित्त्यज्यते । यथा नीलादिपदानां नीलरूपादौ नीलादिविशिष्टे च शक्तिः कोशेन व्युत्पादिता तथापि लाघवानीलादावेव शक्तिः । नीलादिरूपविशिष्टे तु लक्षणेति ॥
(प्रभा०) “ उपमानादि "ति । अर्थात्-गोनिरूपितगवयनिष्ठसादृश्यसाक्षात्काररूपोपमानेन यथा “ गवयो गवयपदवाच्य" इत्याकारकशक्तिग्रहो जायते तथोपमानप्रस्तावे पूर्व प्रतिपादितमिति नेह पुनरुक्किमपेक्षते ।
* “ मृगो धावति तं पश्य " इत्यत्र तं मृगकर्तृकधावनानुकूलव्यापारं पश्य " इति व्यापारमुख्यविशेष्यकबोधस्वीकारेऽपि सर्वनाम्ना तच्छन्देन परामर्शसम्भवान्न तादृशनियम विरोधो चैयाकरणमतेपि, अतस्तदपहाय 'प्रयाति पुरुषस्तस्य" इत्युदाहृतम् ।