________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे वर्तमानज्ञानाश्रयश्चन्त्र" इति शाब्दबोधः। .. ___ रत्नकोशकारस्तु-श्राख्यातस्य न यत्ने नवा व्यापारे शकिः, किन्तु भावनापरपयार्यायामुत्पादनायाम् । तथाच चेतनाचेतनयोः साधारण्यात् सर्वत्राख्यातार्थे धात्वर्थोत्पादकता । तेन-"प्रोदनं पचति रथो गच्छति" इत्यादयः मुख्या एव प्रयोगाः । “पचति” इत्यादौ 'पाकमुत्पादयति' इति विवरणदर्शनात् । 'रथो गच्छति" इत्यत्र गमनमुत्पादयति “यतते" यत्नमुत्पादयति इत्याद्यों बोध्यः । नच-'उत्पादयति' इत्यत्र का गतिरिति वाच्यम् उत्पादनार्थकधातूत्तरवर्तिन प्राख्यातस्योत्पादनाश्रयार्थस्य स्वीकारात् "अनन्यनभ्यो हि शब्दार्थ" इत्युक्तरित्याह तदप्यपेशलम् उत्पादकत्वस्योपाधित्वेन गौरवात् "चक्षुर्जानाति' इत्यादिमुख्यप्रयोगापत्तेश्च ।।
चिन्तामाणकारास्तु-चैत्रो घटं जानाति" इत्यादौ "धात्वर्थप्रकारकबोधे" पदजन्यपदार्थोपस्थितिहेतुः नतु विभक्कयर्थोपस्थितिरि"ति नियमः । तथाच - ज्ञानस्य धात्वर्थभूतस्य साक्षादेव चैत्रेऽन्वयः, पाख्यातप्रतिपाद्यः वर्तमानादिः कालः सङ्ख्या वैकत्वादिश्च,नतु यत्नोपि तस्यायोग्यत्वादित्याहुः । तच्चिन्यम्, नामार्थधात्वर्थयोः साक्षाने. दान्वयबोधस्याव्युत्पत्तेः अन्यथा * "अोदनः पचति" इत्यत्रोदनपाकयोः कर्मतासंसर्ग. णान्वय: स्यात् । अर्थात् कर्मतासंसर्गेण प्रोदनप्रकारकपाकविशेष्यकान्वयः स्यात् ।।
वस्तुतस्तु-'जानातीत्यादो श्राख्यातार्थस्य अनवभासे पाख्यातार्थसङ्ख्यान्वयो न स्यात् तस्या आख्यातार्थविशेष्यगामित्वनियमात् (आख्यातार्थस्य यो विशेप्योस्ति तेन सहैवाख्यातार्थसङ्ख्याऽन्वेतीति नियमात्) । पाख्यातार्थविशेष्यस्तु - विभक्कयर्थाविशेषणीभूतो नामार्थः । अर्थात्-"चैत्र श्रोदनं पचति" इत्यत्र पाख्यातार्थस्य विशेष्यश्चैत्रो नत्वोदन: तस्य द्वितीयार्थविशेषणत्वात् । 'चैत्रेण श्रोदनः पच्यत' इत्यत्र कर्मीभूत अोदनादिरेव पाख्यातार्थस्य विशेष्यो नतु चैत्रादिः, तस्य तृतीयाविरुद्धत्वात् । “स्थीयते' इत्यत्र तु "स्थित्यनुकूला कृति' रित बोधादाख्यातार्थे न कस्यापि विशेष्यत्वमित्यनन्वितैव सङ्ख्या । अत एवैतादृशस्थले प्रोत्सर्गिकमेकवचनमेवे. त्यूचुः । अत्र धात्वर्थविशेष्यक एवान्वयबोधः । ननु-श्राख्यातार्थः कुत्रान्वेतीति चेत् ? एकपदोपात्तत्वप्रत्यासत्या कृतावेवेति जानीहि । केचित्तु धात्वर्थे कालान्वयः जानातीत्यादी ज्ञाने वर्तमानत्वादिप्रतीतरित्याहुः। .....
एवञ्च-" चैत्र प्रोदनं पचती "त्यत्र विक्नित्तिरूपं कर्मत्वं द्वितीयार्थः, तस्य विशेषणतया पाके, प्रोदनस्य कर्मत्वविशेषणतया कर्मणि, पाकस्य संसर्गमर्यादालभ्यायामनुकूलतायां, तस्याः कृतौ, तस्याः चैत्रै सङ्ख्यामिधानयोग्येऽन्वयः । एवञ्च -"प्रोदनकर्मकपाकानुकूलवर्तमानकृतिमांश्चैत्र " इति बोधः । " चैत्रेय पच्यते तण्डुल" इत्यत्र तृतीयार्थो वृत्तिः, साच कृतौ प्रकारः, कृतिर्विषयतासम्बन्धेन तण्डुलेऽन्वेति । तथाच-" चैत्रवृत्तिपाकानुकूल कृतिविषयस्तण्डुलः" इति बोध इति प्राचीनमतम् ।
* साक्षाद्धात्वर्थनामार्थयोरन्वयस्याव्युत्पन्नत्वाभावे ।