________________
श्राख्यातशक्रिविषये मीमांसकमतखण्डनम् ।
३०७
ननु-तवापि मते "रथो गच्छति' इत्यादिस्थले व्यापारे शक्ति विना कथं निर्वहः, अचेतने रथे यत्नापरपर्यायाः कृतेरभावाादत्याक्षपे स्वसिद्धान्त निर्वाहयति"रथ" इति । अत्र गमनानुकूल कृतिरूपस्याख्यातार्थस्य मुख्यार्थस्य जडे रथे बाधात् अन्वयानुपपत्तेः व्यापारे अर्थात् गमनानुकूलव्यापारे निरूढा लक्षणा नतु शक्तिः । ततश्च “गमनानुकूलन्यापारवान् रथ" इत्येव बोधः । *नवीनमतेनाह-"आश्रयत्वे वेति । रथे गमनानुकूलव्यापारस्य बांधाभावात् गमनाश्रयस्वे उता लक्षणा । बोधस्तु -"गमनानुकूलव्यापाराश्रयत्वधर्मावच्छिन्नो रथ' इति ।
अयमाशयः..- अनुकूल व्यापारमात्रमाख्यातार्थः । ततश्च "रथो गच्छति" इत्यादौ "गमनानुकूलव्यापारवान् रथ" इति शक्रयेव शाब्दबोध इति मीमांसका पाहुः तन्न युक्तम् । श्राख्यातस्य यत्ने (कृतौ) शकिस्वीकारे यत्नत्वस्य (कृतित्वस्य) शक्यतावच्छेदकांशे लाघवात्। यत्ने अनुकूलताप्रतीतिस्तु संसर्गमर्यादालभ्या, तदेतदावयोः समानमेव । ननु-कथं तर्हि "जानाति, यतते, इच्छति, करोति, इत्यादयः प्रयोगाः नात्र ज्ञाना. धनुकूल यत्नस्य प्रतीतिः ज्ञानादीनां विषयस्वभावपारतन्यादिति चेन्न ? अत्र लक्षणया * ज्ञानाद्याश्रयत्वप्रतीतेः । नमत्रास्माकं मते धात्वर्थानुकूलकृतिव्यापारयोः प्रतीतिः तस्याः प्रमाणान्तरबाधितत्वात् तस्मादाश्रयत्वे लक्षणावश्यमेवाणीया । एवमेव 'रथ' इत्यादावपि व्यापारे लक्षणा । धात्वर्थनामार्थयोंभेदेनान्वयस्याव्युत्पन्नत्वात् लक्षणाश्रयणं, रथगमनयोः परस्परमन्वयासम्भवात् । एवञ्च-जानाती' त्यादी ज्ञानाद्यनुकूलयनस्य बाधात् प्राश्रयत्वे लक्षणास्वीकारे श्राख्यातेन वर्तमानत्वादीनां धात्वर्थ एवान्वयः । धात्वर्थस्य चाश्रयत्वे, तस्य चैत्रे । तथा च "चैत्रो घटं जानाति" इत्यत्र घटविषयक___* एतमेवार्थ हृदि कृत्वा अप्पय्यदीक्षितसौदर्यपौत्रो नीलकण्ठदीक्षितः शिवतत्त्वरहस्ये 'शिव' नामव्याख्यानावसरे यदा-वष्टीति शिवः पृषोदरादित्वात्साधुरित्युत्का 'यद्यपि "करि कृत्" इत्यनुशासनात् कर्तृत्वस्य च धात्वर्थविषयकत्याश्रत्वरूपात्प्रकृते पचायच्प्रत्ययस्याश्रया. कत्वमलभ्यम् तथापि ज्ञानादिगोचरकृतेरभावेन ज्ञानादिबोधकधातृत्तरकर्तृप्रत्ययानां जानातीच्छति यतते इत्यादिषु माश्यलक्षकतया सम्प्रतिपरत्वे इच्छाश्रयत्वपर्यवसानात्" इत्युक्तवान् ।
+मणिकारमतेनेत्यर्थः।
* जानातीति-जानातीत्यत्र प्राकट्यावच्छिन्नं शानं धात्वर्थः । प्राकट्यश्च शाततेति भाट्टाः । भावरणभङ्गानुकूलव्यापार इति वैयाकरणाः । धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वम् । यथा-"ग्रामं गच्छति" इत्यत्र उत्तरदेशसंयोगानुकूलव्यापारो धात्वर्थः । धात्वर्थतावच्छे. दकं फलं तादृशसंयोगः, तच्छाली ग्रामः कर्म । फलावच्छिन्नम्यापारस्य धात्वर्थतामतेनेदम् । तथा भामते च शाततारूपधात्वर्थतावच्छेदकं फलम्, तच्छाली घटः कर्मः । वैयाकरणमते च आवरणभङ्गरूपं धात्वर्थतावच्छेदकं तच्छाली घटः कर्म । नतु शानानुकूलव्यापारो धात्वर्थ: तस्याऽप्रसिद्धत्वात् । ज्ञानमात्रस्य धात्वर्थत्वे धावतावच्छेदकीभूनशानत्वस्य घटरूपकर्मण्यवृत्तित्वाच्च 'घटं जानाति' इति द्वितीयानुपपत्तिः, तस्याः कर्मत्वे विधानादित्यवधेयम् ।