________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे इवार्थे सादृश्यपदार्थे विशेषणत्वेन त पर्यविषय एव । अर्थात् वना इच्छति यञ्चैत्रपदार्थः सादृश्ये विशेषणं स्यादिति, तस्मादन्न नातिव्याप्तिः । “प्रथमान्तपदो. पस्थाप्य " इत्यस्य फलन्तु "स्तोकं पचति मृदु पचति " इत्यादौ स्तोकादिरूपेऽर्थे श्राख्यातार्थभूतायाः सङ्ख्याया वारणं बोध्यम् ।
अयमभिसन्धिः- यद्यपि क्रियाविशेषण भूतानां स्तोकादिपदार्थानां धात्वर्था. तिरिकाविशेषणत्वं स्वत:सम्भवि, ततस्तत्राप्याख्यातार्थसङख्याया अन्वयन भाव्यम्, येन ' स्तोके पचतः स्तोकानि पचन्ति " इन्याकारा अपि क्रियाविशेषणतया प्रयोगा
आपोरन् तथापि “प्रथमान्तपदोपस्थाप्य" इति द्वितीयदलनिवेशेन स्तोकादिपदार्थे नाख्यातार्थसङ्ख्याया अन्वयः " क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्गता च" इत्यनुशासनबलात् स्तोकादितिीयान्तपदोपस्थाप्य: ततश्च नात्राप्यतिप्रसङ्ग इत्याशयेन " स्तोक " मित्यारभ्य वारण " मित्यन्तो ग्रन्थः । चैत्रादेारणमिति । चैत्रादेराख्यातार्थसङ्ख्यावारणमित्यर्थः । इदन्तु बोध्यम्-नैयायिकमते " लः कर्मणि "-इत्यादिसूत्रे अनुवृत्तसप्तम्यन्तकर्तपदस्य कर्त्तत्वं लाक्षणिकत्वमेव । एवं " कर्मणि द्वितीया " " कर्तृकरणयोस्तृतीया " इत्यादिसूत्रघटकसप्तम्यन्तकर्मकादि पदानामपि कर्मत्वकर्तृत्वाद्यर्थे लाक्षणिकत्वमेव । “ग्राम गच्छात” इत्यादौ द्वितीयादिना कर्मत्वादिबोधनात् । तथाच-सकर्मकधातुसमभिव्याहृतयगाद्यनुत्तरलकाराः कर्त्तत्ववाचकाः । तादृशधातुसमभिव्याहृतयगाद्युत्तरलकाराः कर्मत्ववाचकाः । एवमकर्मकधातुसमभिव्याहृतयगाद्यनुत्तरलकाराः कर्तत्ववाचकाः । तादृशधातुसमभिव्याहृतयगाद्युत्तरलकारा निरर्थका इत्युक्तरीत्यैव सूत्रार्थः पर्यवसितः।
(मु०) एवं व्यापारेऽपि न शक्तिौरवात् । रथो गच्छतीत्यादौ तु स्वव्यापारे प्राश्रयत्वे वा लक्षणा । जानातीत्यादौ तु प्राश्रयत्वे, नश्यतीत्यादौ प्रतियोगित्वे निरूढलक्षणा ॥
(प्र० टी० ) " रथो गच्छति" इत्यादिसाधारण्याय लकारसामान्यस्य अनुकूलव्यापारे शक्निरित्याशयवतां मीमांसकानां मतं दूषयति-" एवम्" इति । व्यापारेऽपि-अपिना कर्ता समुचीयते । तथाच लकारसामान्यवाच्यो यथा कर्ता न भवति तथा व्यापारोपीति भावः। गौरवात् जन्यत्वादिघटितव्यापारस्यापि कृतित्व( यत्नत्व ) जात्यपेक्षया गुरुत्वादित्यर्थः । तथाच-गौरवात् कर्त्तत्वं यथा नाख्यातपदशक्यतावच्छेदकं तथा जन्यत्वघटितव्यापारत्वमपि न शक्यतावच्छेदकमिति भावः । ननु-कृतौ शक्विकल्पनमन्यत्र लक्षणाकल्पनमिति तवापि गौरवमिति चेन्न तादृशगौरवस्य फलमुखत्वेनादोषत्वात् । अमुमेवार्थ " रथो गच्छति' इत्यादिना स्फुटीकरोति ।
श्रयमाशयः- “तजन्यत्वे सति तजन्यजनको व्यापार" इति ब्यापार. लक्षणम् । एवं जन्यत्वादिधर्मघटितव्यापारलक्षणलक्षितस्यास्य व्यापारस्य यत्नत्वजात्यपेक्षया शक्यतावच्छेदकांशे गौरवम् । तस्माद् ब्यापारे शक्किलकाराणामित्ययुक्तं वचो मीमांसकानाम् ।