________________
उत्रकर्तेल तण पदकृत्यम् ।
३०५
इत्र न चैत्रादार्थेऽन्धयः । तस्य इवार्थे सादृश्यरूरे विशेषणत्वेन तात्प्रयविषयत्वात् । " चैत्रनिरूपितं यत्सादृश्यं, तादृशसादृश्येन यद् गमनं, तादृशगमनानुकूला या वर्तमानकालिका कृतिः, तादृशकृत्याश्रय एकत्व सङ्ख्या विशिष्टो मैत्रः" इत्युक्तवाक्यस्य शान्दबोधः।
(मु०) यत्र कर्मादौ न विशेषणत्वे तात्पर्य तद्वारणाय प्रथमान्तेति । यद्वा धात्वर्थातिरिक्ताविशेषणत्वं प्रथमदलार्थः । तेन चैत्र इव मैत्री गच्छतीत्यत्र चैत्रादेर्वारणम् । स्तोकं पवतीत्यादी स्तोकादेर्वारणाय च द्वितीयदलम् । तस्य द्वितीयान्तपदोपस्थाप्यत्वाद्वारणमिति ।।
(प्र. टी.) "प्रथमान्तपदोपस्थाप्य "-इत्यस्योक्नकर्त्तलक्षणस्य पदकृत्यं दर्शयति-"तो"ति । अयमर्थः- " चैत्रस्तण्डुलं पचति " इत्यादौ पाख्यातार्थ. सङ्ख्यायाः तण्डुलेऽन्वयो माभूत् , नापिच “ चैत्रेण सुप्यते " इत्यादौ धात्वर्थभूते स्वापादौ सङ्ख्याया अन्वयः स्यात् तदर्थं " प्रथमान्तपदोपस्थाप्य" इत्युक्तम् । अन्यथा इतरविशेषणत्वतापर्याविषत्वं तण्डुलेपि वर्तत एव, तस्यापि च सङ्ख्याभिधानयोग्यतायां " चैत्रस्तण्डुलौ पचति" इति प्रयोगो न स्यात् । किन्तु " चैत्रस्त. ण्डुलौ पचत ” इत्येव स्यात् । एवञ्च • चत्रेण सुप्यते " इत्यत्रापि चैत्रस्य इतरविशेषणवतात्पर्याऽविष्यस्वन्तु वर्तते तदाऽस्यापि सङ्ख्याभिधानयोग्यतायां "चैत्राभ्यां सुप्येते, चैत्रैः सुप्यन्ते " इत्येवमपि कर्मवाच्यवत् प्रयोगौ स्याताम् , परं नतु तथा तौ भवतः । किन्तु धात्वर्थभूतस्य स्वापादिभावस्यैकत्वादेकवचनमेव भवतीति भावः । वैयाकरणा अपि "तिवाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेने द्विवचनादि । किन्त्वेकवचनमेव । तस्यात्सर्गिकत्वेन सङ्ख्यानपेक्षत्वात्" इत्याहुः ।
वैयाकरणा " भावप्रधानमाख्यातम्" इतिनियमानुरोधेन सर्वत्रैव कर्तुर्विशेषणभावमभ्युपगच्छन्ति । ततश्च सर्वत्र कर्तर्विशेषणतया विशेषणत्वतात्पर्याविषयत्वं न सङ्गच्छते एवं कृते सति " चैत्र इव मैत्रो गच्छति " इत्यत्रापि चैत्रे सङ्ख्याया अन्वयः स्यादित्यस्वरसबीजं हदि निधाय कल्पान्तरमाह-'यद्वे'ति । " इतरविशेषणत्वतात्पर्याऽविषयत्वम्" इत्यादिप्रथमदलस्य धात्वर्थीतिरिकाविशेषणत्वमर्थो बोध्य इत्यर्थः । प्रथमदलार्थः कर्मत्वाद्यनवरुद्ध इति वाक्यप्रतिपाद्य इत्यर्थः । एतद्विवक्षायाः फलमाह-"तेने"ति। धात्वांतिरिकत्वविशेषणेनापीत्यर्थः। चैत्रपदार्थों धात्वर्थातिरिने पचति' इत्यादौ चैत्राद्यन्यस्मिन् पाककर्तृत्वयोगो व्यवच्छिद्यते । अर्थात् “चैत्रान्यो न पाककर्ता। विशेषणसगतवकारस्यायोगव्यच्छेदोऽर्थः। यथा ''शङ्खः पाण्डुर एव" इत्यादौ शो पाण्डुरायोगो व्यवच्छिद्यते । अर्थात् शङ्खमात्रेऽवश्यं पाण्डुरताया: सम्बन्धः । क्रियासङ्गतैवकारस्य अत्यन्तायोगव्यवच्छेदोर्थः । यथा--" नील सरोजं भवत्येव " इत्यादौ सरोजे नीलभवनस्य अत्यन्ताऽयोगो व्यवच्छिद्यते नत्वयोगो म्यवच्छिद्यते । क्वचित्सरोजे नीललासम्भवस्यापि सत्वात् । अर्थात्-किश्चित्सरोजमनीलमपि भवति ।