________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ शब्दखण्डे
कर्त्तृनिष्ठा सङ्ख्या श्राख्यातप्रत्ययेनोक्का भवति तदा कर्त्तरि प्रथमा विभक्तिर्भवतीति
नियमो बोध्यः । यदाहुः -
३०४
कर्त्ता कर्म च करणं सम्प्रदानं तथैव च । श्रपादानाधिकरणमित्याहुः कारकाणि षट् ॥ द्वितीया कर्मणि ज्ञेया कर्त्तरि प्रथमा यदा । उक्तकर्तृ-प्रयोगोऽयं न तदा यक्प्रयुज्यते ॥
तृतीया कर्त्तरि यदा कर्मणि प्रथमा तदा । उक्लकर्म-प्रयोगोऽयं न तदा परस्मैपदम् ॥ इति ।
1
अत्र कर्त्तरीति कर्त्तृसङ्ख्याभिधान इत्यर्थः । ननु - कर्त्तृसङ्ख्याभिधाने (उफ्रेक कर्त्तरि ) किं प्रयोजकमित्याशङ्कय तत्प्रयोजकं दर्शयति - " सङ्ख्याभिधाने "ति / कर्मत्वाद्यनवरुद्धः=कर्मत्वादिधर्मानवच्छिन्नः प्रथमान्तपदोपस्थाप्यः=प्रथमाविभक्क्रयन्तपदेन स्मृतिविषयतां गमितः कर्त्ता सङ्ख्याभिधानयोग्यः = उक्तः कर्त्ता भवतीत्युक्त कर्त्तृलक्षणं ज्ञेयमित्यर्थः । ननु - " " चैत्र इव मैत्रो गच्छति " इत्यादावाख्याते नैकवचनत्वरूपेण उक्कायाः सङ्ख्याया यथा मैत्रेऽन्वयस्तथा चैत्रेऽपि । स्यात्, यतश्चैत्रोऽपि कर्मत्वादिधर्मानवरुद्ध: प्रथमान्तपदोपस्थाप्यश्चेति । किञ्च - "पक्रमन्नं भुज्यते" इत्यन्त्राख्यातसङ्ख्याया अन्नपदार्थेऽन्वयानुपपत्तिः, पाककर्मत्वस्य श्रन्नेऽन्वयेन कर्मत्वाद्यनवरुद्धत्वाभावाच्चेत्यस्वरसं मत्वा परिष्कृतमुक्रकर्त्तृलक्षणं वक्तुमाह- कर्मत्वादित्यस्येति । तथाच - कर्मत्वपदमितरपरम् अनवरुद्धत्वञ्चा त्रिशेषणतया श्रविवक्षितम् । अर्थात् — कर्मत्वाद्यनवरुद्धेत्यस्य " इतरविशेषणत्वेन तात्पर्याऽविषयत्वम् " इति पारिभाषिकार्थः । कर्मपदमितरपरम्, अनवरुद्वपदं विशेषणत्वेनाऽविवक्षितपरमिति दिनकर्युक्तेः । इत्थं लक्षणस्यायमाकारः सम्पद्यते - " इतरविशेषणत्वेन तात्पर्यविषयत्वविशिष्टप्रथमान्तपदोपस्थाप्यः कर्त्ता सङ्ख्याभिधानयोग्यः" इति । तेनोक्कस्थले आख्यातसङ्ख्याया मैत्र
* कर्त्तुरुक्तत्वे इत्यर्थ: ।
+ अत्राहु:: - यत्र " चैत्रीयं सादृश्य " मित्यवान्तरवाक्यार्थबोध: तत्र कथं चैत्रस्याविशेषणत्वमिति तन्न यत्र “ खले कपोतन्यायेन ” युगपत्पदार्थान्वयबोधः तत्र 'चैत्रीयं सादृश्य मित्यक्ान्तरवाक्यार्थबोधस्य पूर्वमभाव:, अतो विशेषणत्वतात्पर्याविषत्वपर्यन्तानुधावनम् । नच“ चैत्र एव पचति " " चैत्रश्चैत्रं पश्यति' इत्यादौ एवकारार्थे अन्यस्मिन् कर्मादौ च चैत्रस्य विशेषणत्वात् कथं तत्र सङ्ख्यान्वय इति वाच्यम्, विशेषणत्वमुख्य विशेष्यत्वाभ्यां तात्पर्यविषयत्वात् तत्र सङ्ख्यान्वयोपपत्तिर्यतः ।
,
इदन्तु बोध्यम् – एवकारार्थस्त्रिविधः । अन्ययोगव्यवच्छेदः, अयोगव्यवच्छेदः, अत्यन्तायोगव्यवच्छेदश्चेति । विशेष्यसङ्गतैवकारस्य श्रन्ययोगव्यवच्छेदोऽर्थः । यथा " चैत्र एव