________________
उनकर्तृलक्षणम् ।
३०३
पाकानुकूलो व्यापार" इति व्याकरणमते बोधो भवति । एतादृशेऽर्थे प्रमाणन्तु"लः कर्मणि"--(३ । ४ । ६६) इति सूत्रमेव । एवं तिप्प्रत्ययस्य सङ्ख्या, कर्ता, कालश्चेति त्रयोऽर्थः । “ सामान्यविशेषयोरभेदान्वय” इति नियमेन तिप्प्रत्ययवाच्यभूतेन सामान्यकर्तृरूपेण तद्विशेषचैत्ररूपस्यार्थस्याऽभेदान्वयः । तथाच दर्शितम् । एवं स्थिते नैयायिक आह-" तच्च गौरवात्त्यज्यते" इति । परमेवं कृते सति गौरवमापद्यते किन्तु तेन श्राख्यातस्य कृतौ यत्ने शक्तिमन्तच्या लाघवात् लाघवहेतोरित्यर्थः । “कृति"रिति-सा चाख्यातार्थभूता कृतिः चैत्रादौचैत्रमैत्रादौ कर्तरि कृत्याश्रये प्रकारीभूय-विशेषणभावमापद्य भासते-विशेषणतासम्बन्धेनान्विता भवतीत्यर्थः ।
अयमत्र नैयायिकानामाशयः-यदि-" लः कर्मणी"त्यनुशासनबलाद् श्राख्यातस्य कर्तरि शकिरभ्युपगम्येत, तदा कर्तनिष्ठो धर्मः कृतिरूप एव शक्यतावच्छेदक: स्यात् । कृतिस्तु प्रतिकर्तृ नानारूपतया वर्त्तते । ततश्च शक्यतावच्छेदकधर्माणामानन्त्यापत्तिः । एकरूपस्यावच्छेदकधर्मस्योपस्थित्यपक्षया नानाधर्माणामवच्छेदकभूतानामुपस्थितेर्महद्वगौरवमापयेत । अत उपस्थितिकृतलाघवहेतोराख्यातस्य पचत्यादेः कर्त्तनिषे कृतिरूपे धर्म एव शकिरङ्गीकार्या । शक्यतावच्छेदकत्वन्च नानाकृतिष्वनुगतायाः कृतित्वरूपाया जातेरेवेति पारमार्थिकं लाघवमनुसरदिनैयायिकैरर्धमात्रालाघवाभिमानारूढा वैयाकरणा सोपहासमीक्ष्यन्ते ।
(मु०) न च-कर्तुरनभिधानाच्चैत्रादिपदानन्तरं तृतीया स्यादिति वाच्यम् , कर्तृसङ्ख्यानभिधानस्य तत्र तन्त्रत्वात् । सङ्ख्याभिधानयोग्यश्च कर्मत्वाद्यनवरुद्धः प्रथमान्तपदोपस्थाप्यः । कर्मत्वादीत्यस्येतरविशेषणत्वतात्पर्याविषयत्वमर्थः । तेन चैत्र इव मैत्रो गच्छतीत्यादौ न चैत्रे सङ्ख्यान्वयः।
(प्र० टी०) ननु-भवद्रीत्या श्राख्यातप्रत्ययस्य कृतौ शक्तिस्वीकारे कर्ता तु नाख्यातवाच्यः, एवं प्रत्ययादिनाऽनुक्ने कर्तरि " अनभिहिते” (२।३।१) इतिसूत्राधिकारवता " कर्तृकरणयोस्तृतीया " ( २ । ३ । १८ ) इत्यनुशासनेन " चैत्रः पचति" इति वक्तव्ये ' चैत्रेण पचति" इति प्रयोगापत्तिः स्यादित्याशयेन शङ्कामुत्थाप्य प्रतिक्षिपति-" नच" इत्यारभ्य " तन्त्रत्वाद् " इत्यन्तेन । कर्तुः= चैत्रादेः अनभिधानात् प्रत्ययानुक्रत्वात्, चैत्रादिपदानन्तरं “चैत्रः पचति " इत्यादौ चैत्रादिपदोत्तरम्। श्रादिना मैत्रादिपरिग्रहः । तृतीया विभक्तिः स्यादितिशङ्काग्रन्थपदार्थः । कर्तृसङ्ख्यानभिधानस्य-कर्तृगतायाः सङ्ख्याया यदनभिधानम् तस्य तत्र-तृतीयायां तन्त्रत्वात्प्रयोजकत्वात् । अर्थात् यदा कर्तृगता सङ्ख्या आख्यातप्रत्ययेनोक्का न भवति तदोक्कसूत्रेण कर्तरि तृतीया विभक्तिर्भवति यदा