________________
कतका
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे यव्यापारौ वाच्यौ । तथाहि-" साधकतमं करणम् " ( पा० १ । ४ । ४६ ) इस्यत्र तमबर्थः प्रकर्षः । सचाव्यवधानेन फलजनकव्यापारवत्ता, तादृशव्यापारवत्कारणं करणम् । सप्तम्या अप्याश्रयोऽर्थः । तच्च " आधारोऽधिकरणम्" ( पा० १।४। ४५ ) इति सूत्रादाधारः । तच्चाश्रयत्वम् । तत्राश्रयांशः शक्यः तत्त्वमवच्छेदकत्वम् । उक्तञ्च वाक्यपदीये
कर्तृकर्मव्यवहितामसाक्षाद्धारयस्क्रियाम् ।
उपकुर्वक्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ उपकुर्वत् क्रियासिद्धाविति स्वनिष्ठव्यापारेण प्रधानक्रियानिर्वर्तकमित्यर्थः । अवधिः पञ्चम्यर्थः । तच्चापादानम् । “ध्रवमपायेऽपादानम्” (पा० १.४ २४) . इति सूत्रादपायो विश्लेषः, तजनिका या क्रिया, तत्रावधिभूतमपादानम् । उक्तञ्च . वाक्यपदीये
आपाये यदुदासीनं चलं वा यदि वाचलम् ।
ध्रुवमेवातदावेशात्तदपादानमुच्यते ॥ उद्देशश्चतुर्थ्यर्थः। तच्च सम्प्रदानमेवोद्देश्यम् “कर्मणा यमभिप्रेति स सम्प्रदानम्"(पा० १४.३२) इति पाणिनिशासनात् । इदमेव शेषित्वम् । तदुद्देश्यकेच्छाविषयत्वञ्च शेषत्वमित्येवं पूर्वतन्त्रेऽपि निरूपितम् । " षष्ठी शेषे” (पा० २।३।१०) इति सूत्रात् सम्बन्धमानं षष्ठया अर्थः । सच कारकप्रातिपदिकार्थभिन्नः स्वस्वामिभावादिसम्बन्धश्च शेषपदार्थः । शक्तिरेव वा षष्णां विभक्तीनामर्थः । कारकषष्ठयास्तु शक्तिरेवेति । एवमादिरीत्या व्याकरणाच्छतिग्रहः । प्रपञ्चस्तु वैयाकरणभूषणादौ । दिङ्मात्रन्तूकम् ।
(मु०) क्वचित्सति बाधके त्यज्यतेऽपि । यथा वैयाकरणैराख्यातस्य कर्तरि शक्तिरुच्यते । चैत्रः पचतीत्यादौ का सह चैत्रस्याभेदान्वयः । तञ्च गौरवात्त्यज्यते, किन्तु कृतौ शक्तिलाघवात् । कृतिश्चैत्रादौ प्रकारीभूय भासते।
(प्र० टी ) व्याकरणशक्लेरपवादस्थलं दर्शयितुमाह-" क्वचिदि"ति । क्वचित् कस्मिंश्चित् स्थले सति बाधके गौरवादिदोषकारणात् त्यज्यतेऽपिव्याकरणाद् गृहीताया अपि शक्नेस्त्यागः कर्त्तव्य इत्यर्थः। तदेतदुदाहरणेन स्पष्टीकर्तुमाह - "यथे"ति-"लः कर्मणि च भावे चाकर्मकेभ्यः" (३।४.६९) इत्यादिव्याकरणानुशासनबलात् "पचती"त्यादेः श्राख्यातस्य क्रियापदस्य कर्तरि धात्वर्थव्यापाराश्रये चैत्रादिकर्तरि शक्तिरुच्यते-शक्तिः स्वीकृता वैयाकरणैः, तेषां मते " चैत्रः पचति" इत्यादिस्थले कर्ता-पचत्याख्यातवाच्येन का सह चैत्रस्य चैत्रपदार्थस्य अभेदान्वयः अभेदसंसर्गः । अर्थात्-"एकत्वसङ्ख्याश्रयचैत्राऽभिन्नकर्तृवृत्तिवर्तमानकालिका