________________
शक्तिज्ञानप्रयोजकानि ।
३०१
रूपा शक्तिः किन्तु तु सा “ यदृच्छारूपा" इति साम्प्रदायिकानां मतमित्याशयेनाह"आधुनिके सङ्केते न शक्तिरिति सम्प्रदाय " इति । एतदाशयेनैव शक्तिवादे" आधुनिकसङ्केतः परिभाषा तया चार्थबोधकं पदं पारिभाषिकम् " इत्यायुक्तमिति तदेकदेशीयमाभाति । अत्रास्वरसो नव्यानामिति नवीनमतं दर्शयति-नव्यास्त्विति । अयमाशय:-यदीश्वरेच्छारूपैव शक्तिः, तर्हि आधुनिकपाणिन्यादिमुनिना 'यूस्त्र्याख्यौ नदी' (पा० १ । ४ । ३ ) इत्यादिरूपेण सङ्केतितात् नद्यादिपदाच्छाब्दबोधो न स्यात् , तस्मादिच्छात्वेन रूपेण शक्तित्वं स्वकिार्यम् , तत्वचिदीश्वरेच्छारूपम् क्वचिदनीश्वरेच्छारूपमिति सर्वसङ्ग्रहः । एवञ्चाधुनिकसङ्केतिताः चैत्रमैत्रडित्थडवित्थाद्याः शब्दा यहच्छाशब्दा द्रव्यवचनाश्चत्यभिधीयन्ते । अधिकं मत्प्रणीतकाव्यप्रकाशटीकाया द्वितीयोल्लासे द्रष्टव्यम् । मतद्वयेऽपि अपभ्रंशगगर्यादिपदे शाक्तिभ्रमादेव बोध इत्यप्यवधेयम् ।
(मु०) शक्तिग्रहस्तु व्याकरणादितः। तथा हिशक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद्वयवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥ धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद्भवति ।
(प्र० टी०) ननु कानि शक्तिज्ञानप्रयोजकानि इत्याकाक्षायामाह-"शक्तिग्रहस्तु" इति । अत्राभिमुक्कोक्ति प्रमाणयति-" तथाही" ति । तत्रव्याकरणम् अष्टप्रस्थानमिन्द्रादिप्रणीतम् । उपमान-सादृश्यज्ञानमुपमितिकरणं पूर्व व्याख्यातम् । कोशः अमरसिंहादिप्रणीतः । प्राप्तवाक्यम्-प्रयोगहेतुभूतयथार्थज्ञानवानाप्तः, तद्वाक्यं प्राकाङ्क्षादिमत्पदसमूहात्मकम् । व्यवहारः शब्दप्रयोगः प्रयोज्यवृद्धमुद्दिश्य उत्तमवृद्धादिकृतः “गामानय त्वम् " इत्यादिप्रेरणारूपः । वाक्यशेषः= स्वभिन्नवाक्ये स्वार्थबोधोपयोगी पदकदम्बोऽर्थवादादिरूपः । विवृतिः विवरणम् । सिद्धपदस्य सान्निध्यम्=प्रसिद्धपदस्य सन्निधिः । एतान्यष्टौ शक्किज्ञानस्य प्रयोजकानि । तानि च क्रमशः प्रदर्श्यन्ते-" धातुप्रकृतिप्रत्ययादीनाम " इत्यादिना ग्रन्थेन । तत्र “भू" धातो: सत्तायां शक्तिः । बटो वर्तमानार्थे शक्तिरित्यादिधातुप्रकृतिप्रत्ययानां “भू" सत्तायाम् “ वर्तमाने लट्" (३ । २ । १२३) इत्यादिव्याकरणाद् " यथायथं वेद्या । श्रादिना " कर्मणि द्वितीया" (पा० २।३।२) इत्यादेः सङ्ग्रहः । उकञ्च
प्राश्रयोऽवधिरुद्देश्यः सम्बन्धः शक्तिरेव वा ।
यथायथं विभक्कयर्थः सुपां कर्मेति भाष्यतः ॥ द्वितीयातृतीयासप्तमीनामाश्रयोऽर्थः । अर्थात्-क्रियाजन्यफलाश्रयः कर्म । धात्वर्थव्यापारश्रयः कर्ता इति कर्तरि तृतीयाया पाश्रयोऽर्थः । करणतृतीयास्तु प्रान