________________
३००
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[शब्दखण्डे
गङ्गादिपदजन्यबोधविषयत्वप्रकारतानिरूपितत्वेऽपि न तस्यास्तादृशविषयतात्वेन तादृशप्रकारतानिरूपितत्वम् । अपि तु शुद्धविषयतात्वेनेति नातिप्रसङ्गो नवा लक्षणोच्छेदापत्तिरित्याद्यन्यत्र विस्तरः।
इदमत्राधिकं पण्डितैतिव्यम्-अर्थविशेष्यकशक्विपक्षे-“गङ्गापदजन्यबोधविषया गङ्गा” इत्यस्य गङ्गापदजन्यबोधविषयताश्रयो गङ्गेत्यर्थः । अत्राश्रयतासम्ब. न्धेन पदजन्यबोधविषयता गङ्गापदार्थ प्रकारः। प्रकारतावच्छेदकं बोधबिषयतात्वम् । प्रकारता च बोधविषयतात्वावच्छिन्ना । तथाच-आश्रयतासम्बन्धावच्छिन्नगङ्गापदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यतासम्बन्धेन गङ्गापद. जन्यबोधविषयता गङ्गापदार्थे वर्तते । “ गङ्गा गङ्गापदजन्यबोधविषया भवतु " इतीश्वरेच्छाया श्राकारः । स्वनिष्ठावच्छेद्यतानिरूपितावच्छेदकतावच्छेदकत्वसम्बन्धावच्छिन्नगङ्गापदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यतासम्ब. न्धेन सैव गङ्गापदजन्यबोधविषयता गङ्गात्वसमवाये वर्त्तते । “ समवायो गङ्गापदजन्यबोधविषयतावच्छेदकातावच्छेदको भवतु " इतीश्वरेच्छाया प्राकारः । अत्र " स्वं " बोधाविषयता, तन्निष्ठा या अवच्छेद्यता ( अवच्छिन्नता ) तन्निरूपिता या अवच्छेदकता सा गङ्गात्वे वर्त्तते, तादृशबोधविषयताऽपि गङ्गायाम् , गङ्गात्वमपि च गङ्गायां वर्त्तते इति तादृशबोधविषयततानतिरिक्रवृत्तित्वाद्वोधविषयतावच्छेदकं गङ्गात्वम्, अवच्छेद्यत्वं च बोधविषयतायां प्राप्तम् । तथाच-गङ्गापदजन्यबोधविषयतानिष्ठावच्छेद्यत्वनिरूपितं यद्गङ्गास्वनिष्ठमवच्छेदकत्वं तत्सम्बन्धावच्छिन्ना या गङ्गात्वनिष्टा बोधविषयता तनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यता गङ्गात्वे वर्त्तते । एवं तृतीयेऽपि " स्वं" बोधविषयता तनिष्ठाऽवच्छेद्यतानिरूपिता अवच्छेदकता गङ्गात्वे, तादृशगङ्गात्वनिष्ठावच्छेदकतावच्छेदकत्वं समवाये । तथाच-स्वनिष्ठावच्छेद्यतानिरूपितावच्छेदकता. वच्छेदकत्वसम्बन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धन गङ्गापदजन्यबोधविषयता समवाये वर्तते । एकैव गङ्गापदजन्यबोधविषयता प्राश्रयतासम्बन्धेन गङ्गायां, अवच्छेदकतासम्बन्धेन गङ्गात्वे, अवच्छेदकतावच्छेदकत्वसम्बन्धेन समवाये, एवं सा सम्बन्धभेदान्त्रिष्वेव वर्तते । अतएव "व्यक्तयाकृति जातयस्तु पदार्थः ( न्या० ) इति गोतमसूत्रे पदार्थ इत्येकवचनोपपत्तिः पदार्थत्वस्य पदजन्यप्रतीतिविषयत्वस्यैकत्वादिति भावः ।
ननु-यदीश्वरेच्छैव शक्ति: तर्हि पुत्रादौ पित्रादिकल्पितानां चैत्रादिपदानां शनिन स्यात् तत्रेश्वरेच्छ या अभावादित्याशङ्कयाह - "आधुनिक" इति । आधुनिकैः पित्रादिभिरेकादशेऽहनि सङ्केतिते नाम्नीत्यर्थः । " इतीश्वरेच्छाया" इति-एकादशाहकालीनपित्रुच्चारणविषयनामत्वेन सामान्यरूपेण ईश्वरेच्छारूपा शतिरस्त्येवेति नाव्याप्तिरित्याशयः । आधुनिकसङ्केतमात्रे नदीवृद्धयादिपदे डिस्थादिपदे च नेश्वरेच्छा