________________
शक्तिलक्षणम् ।
२६६
च्छब्दादयमर्थो बोद्धव्य इतीश्वरेच्छारूपः । श्राधुनिके नाम्नि शक्तिरस्त्येव एकादशेऽहनि पिता नाम कुर्यादितीश्वरेच्छायाः सत्त्वात् । अाधुनिके तु. सङ्केते न शक्तिरिति सम्प्रदायः । नव्यास्तु ईश्वरेच्छा न शक्तिः, किन्त्विच्छैव तेनाधुनिकसङ्कतेऽपि शक्तिरस्त्यवेत्याहुः ।
(प्र० टी०) शक्किं लक्षयति-शाक्तिश्चेति । भगवदिच्छारूपा शनिश्च-पदेन सह-गवादिपदेन सह, पदार्थस्य-गोत्वादिविशिष्टार्थस्य, सम्बन्धः वाच्यवाचकभावरूपः । शक्तिं लक्षयति-साचेति । अस्मात् शब्दात्-घटादिपदात् अयमर्थः= कम्बुग्रीवादिव्यनिरूपः घटत्वादिजातिरूपो वार्थः, बोद्धव्यः ज्ञातव्य इत्याकारा या ईश्वरेच्छा-भगवदिच्छा, तद्रूप एव सम्बन्ध: शक्तिरित्युच्यते न्यायनये । इयमेव " मुख्यावृत्तिः " " अभिधा" इति च तन्त्रान्तरे व्यवहियते । उक्तश्च महर्षिणा कणभुजा “ सामायिकः शब्दादर्थप्रत्ययः" ( वै० अ० ७ । प्रा० २ । सूत्र २० ) सामयिकः समय ईश्वरकृतः सङ्केतः " अस्माच्छन्दादयमों बोद्धव्यः " इत्याकारः । तेन समयेन निर्वृत्तः सामयिकः । " तेन निवृत्तम्" (५ । । ७६) इति पाणिनिसूत्रेण ठञ् । शब्दात-घटपटादिपदात् अर्थसम्प्रत्ययः पृथुबुध्नोदराद्याकारादिप्रतीतिर्भवतीति सूत्रार्थः। तथाच शब्दार्थयोरीश्वरेच्छैव सम्बन्धः, सच समया. धीनः । अमुमेवार्थ महर्षिर्गोत्तमोऽपि 8 " न सामयिकत्वाच्छब्दार्थसम्प्रत्यः यस्य" ( न्या० २। १ । १५) इत्यसूत्रयत् । वाचस्पतिमिश्राश्च अनत्यं भाज्य विवृण्वाना “ अभिधानाभिधेययोनियमो गोशब्दस्य सानादिमानेवार्थः, एवमश्वशब्दस्य केसरादिमानेवेति तस्मिन्नियोगो बोद्धव्य इति भगवतः परमेश्वरस्य सर्गादौ सोऽयं समय इत्यर्थ " इत्याहुः ।।
इदन्तु बोध्यम्-यद्यपीश्वरेच्छा एकैव तस्मात् “ घटपदात् पटो बोद्धव्यः " इत्याकारापीश्वरीयेच्छा पटे स्यादिति घटपदात्पटरूपार्थबोवातिप्रसङ्गः । एवमेव “ गङ्गापदात्तरिबोधो भवतु" इत्याकारापीश्वरेच्छा तीरे वर्त्तत इति शक्यैव तीरबोधसत्त्वा. लक्षणाया उच्छेद एव, तथापि "तीरं गङ्गापदवाच्य" मित्याकारस्तीरे व्यवहारो नास्ति। तस्माद् गङ्गादिपदजन्यबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतासम्बन्धेन या ईश्वरीयेच्छा तयैव गङ्गादिपदानां जलप्रवाहादिरूपेऽर्थे शक्तिः । तीरादिनिष्ठविशेष्यताया गवादिपदार्थों बोद्धव्यः । तथा च-"गवादिपदजन्यबोधविषयताश्रयो गवादिकमि"ति फलितम् । गवादिपदजन्यबोधनिष्ठविषयितानिरूपितविषयताश्रयत्वं गवादी स्पष्टमेव । एवं बोधविशेष्यकोऽपि सङ्केतो शेयः यथा-"गोत्वाद्यवच्छिन्नविषय को बोधो गवादिपदजन्यो भवतु" इत्याकार इति दिक्।
. *सूत्रार्थस्तु-शब्दार्थयोरविनाभावलक्षण: सम्बन्धो न सम्भवति, कुतः शब्दार्थसम्प्रत्ययस्य शब्दाजायमानायाः अर्थप्रतीतेः सामयिकत्वात="अस्माच्छन्दादयमों बोद्धव्य" इतीश्वरेच्छारूपो यः सङ्केतः तदधीनत्वात् तन्निर्वर्त्यवादिति यावत् ।