________________
२१८
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः [शब्दखण्डे
पस्थितावेव, शाक्तिज्ञानस्य सङ्केतज्ञानस्य, उपयोगः आवश्यकता । प्रयोजकतेति यावत् पूर्वप्रथम, शक्तिग्रहाभावे-शक्निज्ञानाऽसत्वे पदक्षानेऽपि-पदीयश्रौत्रसाक्षाकारेपि, तत्सम्बन्धेन-पदीयसम्बन्धेन, स्मरणानुपपत्तेः पदार्थस्मरणानुपपत्तेः । यावत्पदीयशक्तिज्ञानं न स्यात् तावत्पदीयज्ञानमात्रेण न पदार्थोपस्थितिर्भवतीति भावः । ननु- कथं पदज्ञानं स्मारकमित्याह-पदज्ञानस्येति । ननु-पदविषयकाऽनुभवरूपाज्ज्ञानात्पदविषयकस्मृतिरुत्पद्यते, पदार्थविषयकानुभवरूपाज्ज्ञानात्पदार्थविषयकस्मृतिरुत्पद्यते, समानविषयकवेन अनुभवस्मरणयोः कार्यकारणभावात् तत्कथं पदज्ञानजन्य पदार्थस्मरणमित्यत आह-एकसम्बन्धीति । “एकसम्बन्धिज्ञानमपरसम्बन्धिस्मारकम्' इत्यस्ति नियमः । अनेन नियमेन यथा तत्पुत्रं दृष्ट्वा तत्पितरं स्मरति किं वा हस्तिनं दृष्ट्वा हस्तिपकस्य, तञ्चालोक्य हस्तिनः स्मरणं जायते, एवमेव पदज्ञानस्यापि सम्बन्धि ज्ञानविधयाऽर्थस्मारकत्वम् । शकिज्ञानवतः पुरुषस्य पदं ज्ञात्वा (पदीयश्रवणं कृत्वा) तत्सम्बन्धिनोऽर्थस्यावश्यमुपस्थितिर्भवतीति सारः ।
(मुक्ता०) शक्तिश्च पदेन सह पदार्थस्य सम्बन्धः । सा * चास्मा.
केषाञ्चिदेव भवति शाब्दबोधो न सर्वेषामिति "शाब्दबोधम्प्रति वृत्तिप्रयोज्यपदार्थोपस्थितिरेवान्वयव्यतिरेकाभ्यां कारणमस्तीति" निश्चीयते । तत्र का नाम सा वृत्तिरिति जिज्ञासायां गदाधरभट्टाचार्यः शक्तिवादग्रन्थे वृतिनिरूपणमारभमाण आह " सङ्केत" इति । अत्र "अर्थ" इति सप्तम्यन्तपदे सप्तम्यर्थों निष्ठात्वम् । तथा वोक्तवाक्यस्यायमर्थः सम्पन्न:-अर्थनिरूपिता पद. निष्ठा या वृत्तिः सा सङ्केतो लक्षणा चेति । तत्रापि घटाद्यर्थनिरूपिता घटादिपदनिष्ठा वृत्तिः " सङ्केतः" तीराद्यनिरूपिता गङ्गादिपदनिष्ठा या वृत्तिः सा "लक्षणा" इति विवेकः । " शक्तिलक्षणा च पदवृत्ति " रित्यनुक्ता " सङ्केतो लक्षणा च पदवृत्ति” रिति कथनमाधुनिकपित्रादिकृतसङ्केतसङ्ग्रहार्थ बोध्यम् । ' शाब्दबोधानुकूलार्थोपस्थित्यनुकूल: पदपदार्थयोः सम्बन्धः शक्तिलक्षणान्यतरा वृत्ति" रिति तु निष्कर्षः। वृत्त्या पदप्रतिपाद्य एव पदार्थः । अत्र “वृत्त्या" इति तृतीयायाः प्रयोज्यत्वमर्थः । पदेन प्रतिपाद्यः पदप्रतिपाद्य इत्यत्र जन्यत्वं तृतीयार्थः । प्रतिपाद्य:=प्रतीतिविषयः । विषयत्वञ्च प्रत्ययार्थः । तथाच-" वृत्तिप्रयोज्यपदजन्यप्रतीतिविषयः पदार्थ " इति फलितं भवति । प्रतीतिरत्र शाब्दबोध एव ।
* इदमत्रावधार्यम्-" इदं पदमिममर्थ बोधयतु " इति “ अस्माच्छन्दादयमों बोद्धव्य ” इति वेच्छा सङ्केतरूपा वृत्तिः । न्यायनये सङ्केतस्येच्छारूपत्वेन “ इद " मित्यादिना पदविशेष्यकः सङ्केत उक्तः । अत्र प्रथमाकारे पदशब्दस्य प्रथमान्तत्वेन पदविशेष्यकः शाब्दबोधः ( न्यायनये प्रथमान्तमुल्यविशेष्यकशाब्दबोधस्येष्टत्वात् ) । तथा च " इदं पद " मित्यादेरिदं गोपदमित्याद्यर्थः । सम्पन्नार्थस्तु-" गोत्वाद्यवच्छिन्नविषयतानिरूपकबोधनिरूपितजनकताश्रयो गवादिपदम् " इति । “ अस्मात्पदादि " त्यर्थविशेष्यकः सङ्केत:-अर्थात् गवादिपदात्