________________
पदवृत्तिनिरूपणम् ।
.
२६७
वान् न भवेत् , यतो भवति, अतो मन्यामहे पदज्ञानमेव करणं नतु ज्ञायमानं पदमिति सर्वोऽयमर्थः कारिकास्थ “तु" पदेन सूचितः । करणं निरूप्य व्यापार निरूपयतिपदार्थधीरित्यादिना। पदार्थस्मरणं पदार्थोपस्थितिरिति पर्यायशब्दाविमौ। पदजन्यस्येत्यस्यानुपादाने दोषमाह-अन्यथेति । अन्यथा पदार्थज्ञानमात्रस्य व्यापारवे ।
अयमाशयः-यदि सामान्यतः पदजन्यपदार्थज्ञानमेव व्यापारः स्वीक्रियेत तदा यत्र पदज्ञानवतः पुरुषस्य प्रत्यक्षादिना प्रमाणेन घटादिपदार्थस्योपस्थितिर्जाता, तस्यापि शाब्दी प्रमा ( शाब्दबोधः ) स्यात् नत्वेवं दृश्यते, तस्मात् पदजन्य पदार्थस्मरणरूपं विशिष्टं ज्ञानमेव पदज्ञानात्मके करणे व्यापारः, नतु यतस्ततो जायमानं पदार्थज्ञानम् । अत्रापि यो विशेषस्तमाह-तत्रापीति । पदजन्यपदार्थस्मृतावपि । वृत्त्या शक्तिलक्षणान्यतरसम्बन्धेन । पदजन्यत्वम् पदनिष्ठा या जनकता, तादृशजनकतानिरूपिता या जन्यता तद्वत्त्वम् । यद् विशेषणं पदार्थस्मृतिपदे व्यापारभूते दत्तं तन्न येन केनापि सम्बन्धेन ग्रहीतव्यं, किन्तु वृत्यात्मकसम्बन्धन पदार्थस्मरणात्मकव्यापारे पदजन्यत्वं बोध्यम् । यद्येवं न स्यात् तर्हि को दोष इत्याकाङ्क्षायामाह -अन्यथेति । वृत्त्या इत्यस्यानुपादान इत्यर्थः । घटादिपदादिति-"शाब्दबोधापत्तेः' इत्यन्तस्यायमर्थः-जन्यं कार्य, जनकं कारणमित्युमुच्यते । प्रकृते पदार्थस्मरणं जन्यं, पदं (पदस्य श्रावणं ज्ञानं) जनकमस्ति, परं जन्यजनकयोरपि कश्चित् सम्बन्धो भवति अन्यथा कथं तयोर्भावः सिद्धयेत् । यद्यत्र येन केनापि सम्बन्धेन पदस्य पदार्थस्मरणम्प्रति जनकता, पदार्थस्मरणस्य च जन्यता मन्येत तर्हि “घटमानेय " इति वाक्यात् घटादिपदेभ्यः समवायसम्बन्धेन आकाशस्यापि शाब्दबोधे भानं स्यात् , अस्ति च शब्दस्वरूपाणां घटादिपदानामाकाशे समवायाख्यः सम्बन्धः, शब्दस्य गुणत्वात् गुणगुणिनोश्च समवायात् । परमुकवाक्यात् कस्याप्याकाशीयशाब्दबोधो न जायते, तस्मात् पदार्थ. स्मरणे पदजन्यत्वं वृत्तिनामकसम्बन्धेन बोध्यम् ।
ननु का सा वृत्तिः यद्पेण यदात्मकेन सम्बन्धेन पदजन्यत्वं पदार्थस्मरणे भवति, येनाकाशस्य शाब्दबोधे न भानं, किन्तु तत्तत्पदार्थसंसर्गरूपवाक्यार्थस्यैवेत्याकाङ्क्षायामाह--वृत्तिश्चेति । शक्तिलक्षणान्यतरसम्बन्धः शक्तिः ईश्वरेच्छारूपा सङ्केताख्या अनुपदमेव वक्ष्यमाणलक्षणा, लक्षणा अपि वक्ष्यमाणलक्षणा शक्य. सम्बन्धरूपा तदन्यतरसम्बन्धो वृत्तिरित्यर्थः । "अर्थस्मृत्यनुकूलः पदपदार्थयो: परस्परसम्बन्धो वृत्ति" रिति तु हृदयम् । साच द्विविधा शक्तिलक्षणा चेति । उकञ्च गदाधर. भट्टाचार्यः शक्तिवादे-सङ्केतो । लक्षणाचार्थे पदवृत्तिः । अत्रैव-पदजन्यपदार्थों
* " तीरं गङ्गापदार्थसम्बन्धि न गङ्गापदार्थ " इति ज्ञानेऽपि " गङ्गायां घोष " इत्यादित: शाब्दबोधोदयात्सङ्केतमात्रेण नोपपत्तिरतो लक्षणाया वृत्त्यन्तरत्वमेषितव्यमित्याशयः ।
सर्वत्र लोके श्रुतैरेव पदैः सर्वेषां जनानां शाब्दबोधो जायते नाश्रुतः । परन्तु श्रुतैरपि