________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ शब्दखण्डे
6C
इति श्रुतवतः ज्ञातपदपदार्थसम्बन्धस्य पुरुषस्य तत्तत्पदश्रवणात् तत्तदर्थौपस्थितौ गोकर्मकानयानुकूलकृतिमांस्त्वम्भव " इत्यकारः समुदितपदेभ्यो वाक्यार्थबोधो जायते यः, स एव शाब्दबोधः तस्य प्रकारं = स्वरूपं दर्शयति = निरूपयतीत्यर्थः । शाब्दी प्रमामाह परममूले - पदज्ञानमिति । तत्र = शाब्द्यां • प्रमायां पदज्ञानं = पदानुभवः, तु=एव करणम्=व्यापारवदसाधारणं कारणम्. पदार्थधीः = पदार्थज्ञानं द्वारं = व्यापारः, तत्र=पदजन्यपदार्थोपस्थितौ शक्तिधीः = पदेन पदार्थस्य सम्बन्धरूपायाः वक्ष्यमाणायाः सङ्केताख्ययाः शक्तेर्धी ज्ञानं, सहकारिणी - सहकारिकारणम् श्रन्यथा पदानुभवेऽपि पदार्थस्य स्मरणं न भवेत् * शाब्दबाधः = वाक्यार्थज्ञानं “ त्यादिवाक्येन जायमानमुकाकारं फलम् = प्रमारूपम् करणस्य फलावश्यम्भावनियमादिति सान्वयः कारिकार्थः ।
२६.६
"
( मु० ) शाब्दबोधप्रकारं दर्शयति - पदज्ञानं त्विति । नतु ज्ञायमानं पदं करणं पदाभावेऽपि मौनिश्लोकादौ शाब्दबोधात् । पदार्थधीरिति । पद जन्य पदार्थस्मरणं व्यापारः । अन्यथा पदज्ञानवतः प्रत्यक्षादिना पदार्थोंपस्थितावपि शाब्दबोधापत्तेः । तत्रापि वृत्या पदजन्यत्वं बोध्यम् । अन्यथा घटादिपदात्समवायसम्बन्धेनाकाशस्मरणे जाते आकाशस्यापि शाब्दबोधापत्तेः । वृत्तिश्च शक्तिलक्षणान्यतरः सम्बन्धः । अत्रैव शक्तिज्ञानस्योपयोगः । पूर्वं शक्तिग्रहाभावे पदज्ञानेऽपि स्मरणानुपपत्तेः । 'पदज्ञानस्य च एकसम्बन्धिज्ञानविधयार्थस्मारकत्वम् ।
T
( प्र० टी० ) कारिकया सङ्गृहीतमर्थं दर्शयति - पदज्ञानन्वित्यादिना । नत्विति - शाब्दबोधे पदज्ञानमेव करणं नतु ज्ञायमानं वर्तमानकालीन श्रावण ज्ञानविषयीभूतं पदं न करणमित्यर्थः । अत्र हेतुमाह - पदाभावेपीति । पदोच्चारणाभावे - पीत्यर्थः । मौनिश्लोकादाविति - मौनिपदं मूकादीनामप्युपलक्षणम् । आदिषदेन 1 विजातीयकरचेष्टादेरपि सङ्ग्रहः ।
इदमत्राकूतकम् - प्रत्येकशब्दस्य ज्ञानं श्रोत्रादेव भवति नविन्द्रियान्तरात् पदमपि शब्दविशेषः । ( वर्णात्मकः ) यस्य साक्षात्कारः श्रोत्रादेव । परं यदा कश्चन कृतमौनव्रतः पुरुषः स्वभावतो वा मूकादिर्जनो वर्णविन्यासेन करादिचेष्टया वा स्वाभिप्रायं परं प्रति बोधयति, तत्र परो बोध्यमानः पुरुषः पदोच्चारणाभावेऽपि पदज्ञानमात्रेण शाब्दबोधवान् जायते । यदि श्रूयमाणमेव पदं करणं स्यात् तदासौ श्रोता तदर्थप्रमा
* एतल्लक्षणन्तु — एकपदार्थेऽपरपदार्थ संसर्गविषयकं ज्ञानं शाब्दबोध इति । यथा -- नीलो घट " इति वाक्याज्जायमानं घटपदार्थे नीलाभेदसंसर्ग विषयीकुर्वत् " नीलाभिन्नोघट " इत्याकारकं ज्ञानम् ।