________________
उपमित्युपसंहारः, शब्दप्रमाणञ्च ।
२६५
द्रष्टव्यम् । * 'प्रसिद्ध साधर्म्यात्माध्यसाधनमुपमानम्' (न्या० १।१।६) इत्याचार्षवचनमूलकमेतत्प्रकरणम् ॥८॥ इति श्रीपण्डितदेवीदासतनुजनुषा सतीविष्णुदेवीगर्भजेन श्रीजैनन्ययविशारदकवितार्किक दर्शनाचार्च-नृसिंहदेवशास्त्रिणा विरचितायां सिद्धान्तमुकावल्याः 'प्रभा' ख्यायां व्याख्यायां तृतीयमुपमानखण्डं समाप्तम् ।
समाप्ता चोपमानस्वरूपनाम्नी षष्ठी मुक्ता ।
अथ शब्दखण्डम्
(का०) पदज्ञानं तु करणं द्वारं तत्र पदर्थधीः ।
शाब्दबोधः फलं तत्र शनिधीः सहकारिणी ॥१॥ (प्र. टी.) प्रार्याऽनार्यस्वान्तध्वान्तध्वंसनपटीयसी सद्यः ।
परिहरतु दुरितजालं तर्कासाराच दिशतु मेधां मे ॥ १॥ वाक्यार्थबोधविकला भ्रान्ताः सन्तीह निगमसिद्धान्ते ।
तेषामद्यकृतेसौ विह मुका प्रभा हि विज्ञेया ॥२॥ (प्र. टी.) शाब्दबोधप्रकारामिति-उपजीव्योपजीवकभावसङ्गतिं ज्ञात्वा उपमानोत्तरं शाब्दबोधप्रकारं दर्शयति । अर्थात् शक्तिज्ञानात्मकोपमितिजन्यः शाब्दबोधः उपजीवकं कार्यमित्युच्यते, तादृशमुपमितिज्ञानं उपजीव्यं कारणमित्युच्यत इति तयोः कार्यकारणभावसङ्गत्या उपमित्यनन्तरं शाब्दबोधनिरूपणम् । “गामानय त्वम्"
*अत्रेदमवगन्तव्यम्-प्रसिद्धसाधादित्यत्र प्रसिद्धिविधा श्रुतिमयी प्रत्यक्षमयी चेति । तत्राचा यथ-'यथा गौस्तथा गवयः' इति । द्वितीया यथा-'गोसादृश्यविशिष्टोऽयमीदृशः पिण्ड:' इति। तत्र प्रत्यक्षमयी प्रसिद्धिरागमसहितस्मृत्यपेक्षा समाख्यासबन्धप्रतिपत्तिहेतुः । यद्यपि-'यथा गौरेवंगवय' इत्येतस्मादपि गोसादृश्यस्य गवयः समाख्येति शक्यतेऽवगन्तुम् । न खलु प्रत्यक्ष एव समाख्याकर्म । समानजातीयव्यवच्छिन्ने हि तद्भवति । तच्च यदि मानान्तरेणापि तथावगम्यते कस्तत्र संज्ञाकर्म निवारयेत् । गोसादृश्येन चोपलक्षितः पिण्डो य इति सर्वनाम्ना परामृष्टः शक्यो घटादिभ्योऽसमानजातायेभ्यो महिषादिभ्यश्च समानजातीभ्यो व्यवच्छिन्नोऽवगन्तुं गवयः, तथापि यावदसौ गवय इति साक्षात्प्रतीते सम्बधिनि संशां न निवेशयति तावदयं परिप्लुतमतिः प्रमाता कश्चित्खलु द्रक्ष्यामि तादृशं पिण्डं यत्र गवयसंज्ञां प्रतिपत्स्य इति प्रोत्सुक एवोदीक्षते । नचासो वाक्यमात्रसहायोऽप्रत्यक्षीकृतगोसट्टशपिण्डोऽयमसौ गवयाख्य' इति प्रतिपत्तुमर्हति । तथा वाक्यं विना प्रत्यक्षमात्रादसौं गवयाख्य इति प्रतिपत्तुं नार्हति । तस्मादागमप्रत्यक्षाभ्यामन्यदेवेदमागमस्मृतिसहितं सादृश्यशानमुपमानाख्यं प्रमाणमास्थेयमिति दिगिति न्यायवाचस्पत्यकाराः।