________________
सविवृतिप्रभोपेताया न्यायसिद्धान्तमुक्तावल्याः
[ उपमानखण्डे
ग्रन्थः तथापि कानिचित् पदानि व्याकुर्मः । श्रारण्य केन= वन्येन किरातादिजनेन नित्यपरिचितगवयपशुनेत्यर्थः । अतिदेशवाक्यार्थस्मरणम् = एकत्र दृष्टस्य श्रुतस्य वाऽन्यत्र योगोऽतिदेशः । यथा अारण्यकस्य अन्तिके श्रुतस्य " गोसदृशो गवय इति वाक्यार्थस्य अरण्य एव तादृशे वन्ये पशौ " तथाऽयम्" इति योजनमतिदेशः । तस्य प्रतिदेशस्य एकत्र श्रुतस्यान्यत्र योजितस्य वाक्यार्थस्य " गोसदृशो गवय इत्यादिकस्य स्मृतिर्व्यापारः तज्जन्यत्वे सति तज्जन्यजनकत्वरूपः । अर्थात् सादृश्यज्ञानजन्यत्वे सति सादृश्यज्ञानजन्योपमितिजनकत्वादुक्ककारा स्मृतिरेव व्यापारः । ननु " श्रयं गवयपदवाच्य " इति ज्ञानं कुतो नोपमितिरित्याशङ्कायामाह – गवय इति ।
श्रयमाशयः -- यदि इदन्तावगाहि उपमितिज्ञानं स्वीक्रियेत तदा पुरोवर्त्तिनि गवयपिण्डे एव गवयपदस्य शक्तिग्रहः स्याद् नतु देशान्तरीयकालान्तरीयगवयव्यक्तौ, इष्यते च गवयव्यक्तयन्तरेऽपि शक्तिग्रह ६ति देतो: “ गवयो गवयपदवाच्य इत्येवोपमितेराकारः समीचीनः ।
२६४
ܕܝ
ܙܕ
رو
I
सर्वसारस्तु — गोसादृश्यज्ञानमुपमानं प्रमाणम् । श्रतिदेशवाक्यार्थस्मृतिर्व्यापारः । " गवयो गवयपदवाच्य " इति पदपदार्थसम्बन्धज्ञानमुपमितिः फलम् । इदन्तु बोध्यम् — उपमानं त्रिविधम् — सादृश्यविशिष्टपिण्डज्ञानम् श्रसाधारणधर्मविशिष्टपिण्डज्ञानम्, वैधर्म्यविशिष्टपिण्डज्ञानञ्च । प्रथमं मूलोक्तम् । द्वितीयं यथा “खड्गी मृगः कीदृशः” इति केनचित् कुतश्चित् पृष्टम् । तच्छ्रुत्वा उत्तरदाता आह“ नासिकालसदेकश्शृङ्गः अनतिक्रान्तगजाकृतिश्च " इति । एतदुत्तरं श्रुत्वा प्राश्निक: पुरुषः कालान्तरे तादृशपिण्डं पश्यन् अतिदेशवाक्यार्थं स्मरति, तदनन्तरं "खड्गी मृगः नगिपदवाच्यः" इति तस्योपमितिरुद्भवति । अन " नासिकालसदेकशृङ्गत्वम् असाधारणधर्मः । तृतीयं यथा - " उष्टः कीदृक् " इति केनचित् पृष्टे 'श्रश्वादिवदसमानष्पृष्ठो न ह्रस्वग्रीवो न ह्रस्वशरीरश्च' इत्याप्तेनोत्तरदात्रोक्तं श्रुत्वाऽसौ पुरुषः कालान्तरे मरुदेशङ्गतः पिण्डविशेषं पश्यति । तदा तस्य "उष्ट्र उष्टपदवाच्य' इत्युपमितिरुत्पद्यते । अर्थाद् वैधर्म्यविशिष्टपिण्डज्ञानमुपमानम्, श्रतिदेशवाक्यार्थस्मृतिर्व्यापारः । " उष्ट: उष्ट्र पदवाच्य” इत्युपमेतिः फलम् ।
,"
एवमेव – “जलादिविधर्मगुणवती पृथिवी" इत्यतिदेशवाक्यार्थस्मृतिर्व्यापारः पृथिवीत्वावच्छेदेन पृथिवीपदवाच्यत्वोपमितिः फलमित्यपि बोध्यम् ।
-
औपनिषदास्तु – प्राङ्गणेषु दृष्टगोपिण्डस्य पुरुषस्य वनङ्गतस्य गवयेन्द्रियसन्निकर्षे सति भवति प्रतीतिः "श्रयं पिण्डो गोसदृश” इति । तदनन्तरञ्च भवति निश्वयः "अनेन सदृशी मदीया गौ” शिति । तत्र श्रन्वयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं करणम्, गोनिष्ठगवयसादृश्यज्ञानं फल" मित्याहुः | अधिकन्तु दिनकरीमणिप्रभादिषु
* मृगो वन्यः पशुः ।