________________
" उपमितिस्वरूपम् ।
भूता, याचानुमितिनिरूपणेन शान्ता, तेन सम्प्रत्युपमितिनिरूपणस्यावसरः । अतश्चात्र " प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्त्या अनन्तरवक्रव्यत्वमवसरसङ्गति " रित्यवसरसङ्गत्या ल तणं घटितमेवेति ज्ञायताम् । कारिकाद्वयस्यायमर्थः- ग्रामीणस्य-ग्रामे भवो ग्रामीणः हालिकादिर्जन: तस्य । कीदृशस्य प्रथमतः प्रथमकाल एव गवयादिकम् भारण्यगोसदृशं पशुविशेषं पश्यत: आलोकयतः एवम्भूतस्य पुरुषस्य , या गवादीनां गोप्रभृतीनां ग्राम्याणां प्रसिद्धानां पशुविशेषाणां सादृश्यधी:=पुरोवर्ती (भारण्यः ) पिण्डः गोसदृशः " गोप्रतियोगिकसादृश्यनिरूपितप्रकारतावान् " इत्याकारकं यद् गवयादिविशेष्यकं गोसादृश्यप्रकारकं प्रत्यक्षात्मकं ज्ञानं सा=बुद्धिः तादृशं ज्ञानमित्यर्थः करणम-साधकतमं मतम् उपमिति रूपायाः फलभूतायाः प्रमाया करणं कुठार इव छिदाया इष्टं नैयायिकानामित्यर्थः। एतदेव "उपमितिकरणमुपमानम्" इत्युक्तं भवति । मनु विना व्यापार करणं न भवतीति व्यापार उच्यतामित्यत पाह-वाक्यार्थस्येति । वाक्यार्थस्य" गोसदृशो गवयपदवाच्य" . इत्यतिदेशरूपस्य वाक्यार्थस्य (प्राप्तोक्नपदकदम्बरूपवाक्यार्थस्य) स्मृतिः स्मरणात्मकं ज्ञानं व्यापारः-तज्जन्यत्वादिलक्षणघटितः उच्यते कथ्यते । .. ननु उक्तकरणस्य किं फलमित्याह-गवयादीति । गवयादिपदानां गवयप्रभृतिशब्दानां शनिधीः="गवयादिरों गवयादिपदवाच्य" इत्याकारकं सङ्केतज्ञानं यत् सैव उपमा उपमितिः फलम्सादृश्यज्ञानरूपोपमानात्मककरणजन्यं प्रमारूपं ज्ञानं फलमित्यर्थः । करणस्य फलवत्वनियमादिति भावः। - (मु०) यत्रारण्यकेन केनचिद् ग्रामीणं प्रत्युक्तं गोसदृशो गवयपदवाच्य इति । पश्चाद् ग्रामीणेन क्वचिदरण्यादौ गवयो दृष्टस्तत्र गोसादृश्यज्ञानं यजातं तदुपमितिकरणम् । तदनन्तरं “ गोसदृशो गवयपदबाच्य'' इत्यतिदेशवाक्यार्थस्मरणं यजायते तदेव व्यापारः । तदनन्तरं तत्र " गवयो गवयपद्वाच्य” इति ज्ञानं यजायते तदुपमितिः। न त्वयं गवयपदवाच्य , इत्युपमितिः, गवयान्तरे शक्तिग्रहाभावप्रसङ्गात् ॥
.
७६ ॥२०॥ इति श्रीविश्वनाथन्यायपञ्चाननभट्टाचार्यविरचितायां ।
सिद्धान्तमुक्तावल्यामुपमानखण्डम् ॥
उनकारिकाद्वयसगृहीतमर्थ मुक्तावल्यां निरूपयति-"ग्रामीणस्येति " प्रतीक भूत्वा “यत्रारण्यकेन" इत्यादिना ग्रन्थेन । निगदेनैव ब्याख्यातार्थोऽयं
+ “ग्रामाद्घखो " ( ४ । २ । ६४ ) इति पाणिनिसूत्रेण खजि साधुः । सारस्वतानान्तु-" केनेयेकः" ( ८ । २७३.) इति तद्धितप्रकरणपठितेन सूत्रेण "ईन" प्रत्यये यथेष्टसिद्धिः।